________________
२४
व्याश्रयमहाकाव्ये
[मूलराजः] समाम्यर्थ इतिशब्दो योज्यः । तथा स्वाधीनो रतगुणाकृष्टत्वेनायत्तो भर्ता यासां ता: स्वाधीनभर्तृका: "क्षियाशीः प्रेषे" [७.४.९२.] इति सर्वत्र मुतः ॥
मजा आस्व । इत्यत्र "शुतोनिती" [३२] इत्यसंधिः ॥ अनिताविति किम् । आस्वेति । अत्र प्लुतस्य संधिः ॥ केचित्वितिशब्द विकल्पमिच्छन्ति । आस्व इति भास्स्वेति ॥
भूहि३ इदम् । इत्यत्र "१३ वा" [३३] इति वासंधिः ॥ पक्षे । बहीति । अत्रापि प्लुतस्य संधिः ॥
मणी इव जपावर्णकुसुमे हारिणी अपि । अहो३ किं स्त्रिश्दमू३ अग्नी३ इत्युज्झ्येते इहार्भकैः ॥२८॥
२८. इह पुरे जपावर्णकुसुमे जपा वर्णश्च वृक्षभेदौ तयोः कुसुमे मणी इव रत्ने इव हारिणी अपि । मणयो हि सामान्येन कान्तिमन्तो रक्ताश्च वर्ण्यन्त इति कान्तिमत्तारक्ततान्यतया मनोहरे अप्यर्भकैबोलकैरुज्झ्येते त्यज्येते । ननु बालका रम्य वस्तु कौतुकाद्वालस्वभावाच प्रत्युत गृहन्ति तत्किमिति हारिणी अपि ते त्यज्येते इत्याह । अहो ३ किंस्वि३दमू३ अग्नी३ इतीति । अमू जपावर्णकुसुमे किमनी वह्निकणाविति बुद्ध्या । अहो इति किंस्विदिति च निपातद्वयं वितर्कातिशयद्योतनाय । वितर्कस्य चान्तरात्मप्रभरूपत्वात् "प्रभे च प्रतिपदम्" [७.४.९८.] इति मुतः ॥ सावाद्वाल्याचामिकणभ्रान्तिः ॥
१सीडी वणे कु.
१५फ ति . २ सीरीत्र बा. ३ सी डी [लैरु. ४ सी तनद'. ५ एफ ल्यावामि'.