________________
४९४
व्याश्रयमहाकाव्ये
[ मूलराजः]
शर्षिकाः । अत्र "शीर्षः" [१०] इत्यादिना शीर्षः ॥
उदपेपम् । उदधिकुम्भ । उदवास । उदवाहनाः । अत्र "उदकस्य" [१०५] इत्यादिनोदः ॥ भित्रोन्य आशुदककुम्भभेत्रोदकुम्भवत्स्वप्रिययोदहार्या । साश्रूदबिन्दकबिन्दुपङ्गयोक्ष्यमाण आपोदकहारभूषाम् ॥८०॥
८०. अन्यो भट उदकहारभूषामुदकबिन्दूनां हाराकारेण पातादुदकस्य यो हारस्तस्य भूषां शोभामाप । कीटक्सन् । उदकुम्भव. द्यथा जलेघट उदककुम्भभेत्रा जलघटभेदकेन नरेण भिद्यत एवमाशु भिन्नः कुमारभटेन केनचिद्विदारितः । अत एवोदहार्या पत्युर्जलपानाद्यर्थ जलमानेच्या स्वप्रिययोक्ष्यमाणः सिच्यमानः । कया कृत्वा । अणि पतिदुःखोद्भूतकष्टोत्थानि नेत्रजलानि तान्येवोदबिन्दवो जलकणाः सह वैर्या सा तथा योदकबिन्दुपतिमूर्छापनोदाय प्रक्षिप्ता ज. लकणश्रेणिस्तया ॥ सिन्धूदमन्थोदकमन्थजेभोदवज्रनादोर्युदकोदनादी। उदौदनं नूदकवज्र भीमासिना निपिष्टोपि ननर्त कश्चित् ॥ ८१॥
८१. कश्चिद्भटो ननर्त महाशूरत्वाद्रणचिकीर्षया ववला । कीदृशः। अरय एवोदकमिश्र ओदनोर्युदकोदनस्तमत्तीत्येवंशीलः। महाबलत्वादनायासेनारिविनाशक इत्यर्थः । अत एव सिन्धोरब्धेर्य उदकं मध्यतेनेन "नान्नि" [५.३.१३०] घे उदमन्यो मन्दरस्तेन य उदकमन्थो जलविलो.
१ ए सी दनिन्यो'. २ ए सी कमिन्य'.
१ए सी शोपिं. २ बीलकुम्म उ. ३ बी 'नायं. ४ डी ५ कुभमा. ५९ सी विदुषोद्ध'. ६५सी उद'.