________________
४८२
व्याश्रयमहाकाव्ये
[ मूलराजः ]
गिरिः सात्वागिरिः । अञ्जना वृक्षभेदास्तेषां गिरिरञ्जनस्य कज्जलस्य वाश्रयो गिरिरञ्जनागिरिरेवंनामको गिरिभेदौ ||
अष्टाकपालं हेविः । अत्र " हविषि" [७३] इत्यादिना दीर्घः ॥
भ्रष्टागवैर्युग्यैः । अत्र “गवि" [७४ ] इत्यादिना दीर्घः ॥
अष्टापद । इत्यत्र "नाम्नि " [ ७५ ] इति दीर्घः ॥
कोटरावण । मिश्रकावण । सिध्रकावण । पुरगावण । सारिकावण । इत्यत्र
"कोटर " [ ७६ ] इत्यादिना दीर्घः ॥
अञ्जनागिरि । साल्वा गिरि । इत्यत्र "अञ्जन" [७७] इत्यादिना दीर्घः ॥ ज्ञातापि राजात्यमरावतीशभोगावती सुतमुत्सुकोयम् । शरावतीशाजिरवत्यलंकारवत्यधीशांश्च युधे दिदेश ॥ ६२ ॥
६२. अयं राजा मूलराजः शरावत्यजिरवत्यलंकारवत्याख्यपुरीनृपांर्श्वे । च: पूर्वादिष्टनृपापेक्षया समुच्चये । युधे दिदेशाज्ञापयत् । सुतं बलेनामरावतीशभोगावतीशौ शक्रशेषाही अतिक्रान्तं ज्ञाताप्युत्सुक उत्कण्ठितः प्रेमातिरेकात्पुत्रपरिभवाशङ्काकुलचित्तः सन्नित्यर्थः ॥
बहुस्वर । भ्रमरावती ॥ शरादि । शरावती । इत्यत्र “अनजिरादि" [ ७८ ] इत्यादिना दीर्घः ॥ बहुवचनमा कृतिगणार्थम् । तेन भोगावती ॥ बहुस्तरस्यानजिरादिविशेषणं किम् | अजिरवती । अलंकारवती ॥
I
वैश्वानरो नु प्रभयातिविश्वामित्रः स विश्वावसुगीतकीर्तिः । दन्तावलान्प्रेरयति स्म विश्वाराद्विश्वराजोपि च वत्सलत्वात्॥६३॥ ६३. स नृपो वत्सलत्वात्पुत्रवात्सल्याद्धेतोर्दन्तावलान् गजान्
१ ए सी 'मुत्सको
१ एसी हवि । अ पू. ५ बी 'ण्ठित प्रे..
२ एसी इत्यात्र. ६ सी दीर्घ । ब°.
३ बी "काम".
४ ए सी डी