________________
[है० ३.२.७२.] षष्ठः सर्गः।
४८१ महाजातीय । महाबलानि । महाभुजः । अत्र "जातीय" [..] इत्यादिना सः॥ अच्वेरिति किम् । महद्भूत ॥
मामहनीप्रियम् । अत्र "न पुंवनिषेधे" [1] इति न डाः ॥ यष्टीयष्टि । यष्टायष्टि । इत्यत्र "इच्य" [२] इत्यादिना पूर्वपदस्य दीर्घ भावान्तादेशः ॥ भस्वर इति किम् । अस्यसि ॥
अष्टाकपालं नु हविर्दिषो युन्मखे जुहूषौ नृपतिः कुमारे । आदिक्षदष्टापदवाणयुग्यैरष्टांगवैर्दाक्पुरगावणेशम् ॥ ६०॥ ६०. कुमारेष्टसु कपालेषु संस्कृतमष्टाकपालं हविर्नु द्विषो युन्मखे रणयागे जुहूषौ भस्मसाचिकीर्षों सति नृपतिर्मूलराज: पुरगावणेशं पुरगा वृक्षभेदास्तेषां वैनं पुरगावणं नाम वनं तस्य य ईशस्तं द्रागादिक्षद्रणायाज्ञप्तवान् । कैः सह । अष्टापदस्य स्वर्णस्य ये बाणास्तेषां युग्यानि वाहनानि शेकटास्तैः । किंभूतैः । अष्टागवैरष्टौ गावो वृषा युक्ता येषु तैः । यद्वा । समाहारे द्विगौ साहचर्यादुपचारादष्टगवेन युकान्यप्यष्टागवानि तेर्महाभारान्वितत्वादष्टभिर्गोभिर्वाीरित्यर्थः ॥ स कोटरामाग्वणनाथसारिकामिश्रकापूर्ववणेश्वरांश्च । साक्सिनकापूर्ववणेशसाल्वागिर्यञ्जनागिर्यधिपाध्यदिक्षत् ॥६१॥
६१. स्पष्टम् । किंतु।स मूलराजः । कोटॅरावणसारिकावणमिश्रकावणसिधकावणाख्यानि कोटरादितरुसत्कानि वनानि । साल्वा देशास्तेषां
१ सी महेखे. २ ए सी 'टावगैर्दा . ३ डी द्राक्सि'. ४ ए सी डी क्सिका.
१एबीसीडी चित्या. २ए ६० पुरगा वृक्षभेदास्तेषां कु. ३ बी वणं पु. ४ डी क्षदा. ५ ए सी शकास्तैः ।. ६ ए सी डी रे गौ. ७ ए सी लजा। ८ ए सी टरव. ९ ए बी सी देशस्ते'.