________________
२२.
व्याश्रयमहाकाव्ये
[ मूलराजः ]
हारि अत्र । चारु ईक्षित्वा । इत्यत्र “ इस्वोपदे वा” [१२] इति वा इस्वः ॥ पक्षे । ब्राह्यत्र || कश्चिन्तु प्रकृतिभावमपीच्छति । कुमारी एवम् ॥ अपद इति किम् । रोदस्यो ॥
पावयन्ती । भर्वाग्निनायिनी । इत्यत्र "एदैतोयाय् ” [ २३ ] इत्ययायौ ॥ लवनी । पावयन्ती । इत्यत्र " ओदौतोवान् ” [२४] इत्यवाचौ ॥
गव्यति । नाव्यति । श्रव्य । श्राव्याभिः । गव्य । नाव्य । इत्यत्र "य्यक्ये" [ २५ ] इत्यवाबौ ॥ अस्य इति किम् । उपोयमानः 1 लौयमांनी ॥ क्यवर्जनाद्यकारादिः प्रत्ययो गृह्यते । तेनेह न भवति । गोयानैः । नौयानः ॥
पित्र्ये पक्षेत्र वीक्षन्ते गवाक्षस्याः पुरन्ध्रयः ।
गोक्षानन्दितॄणां भूमिं गवाक्षानन्दिनीं नदीम् ।। २५ ।।
२५. अत्र पुरे पितृषु साधुः पित्र्यस्तस्मिन् पित्र्ये पक्षे श्राद्धपक्षे गवाक्षस्था वातायनस्थिताः पुरन्ध्रयो विलासिन्यो भूमिं वीक्षन्ते विशेषेण पश्यन्ति । यतो गवां धेनूनां वृषभाणां चाक्षाणीन्द्रियाणि तेषां तृप्तिहेतुत्वादानन्दीनि आह्लादनशीलानि तृणानि हरितानि यस्यां ताम् । तथा नदीं सरस्वतीं च वीक्षन्ते । यतो गवाक्षानन्दिनीं तृष्णाद्युच्छेदकत्वाद्रवेन्द्रियाणामाह्लादयित्रीम् । शरदि हि भूमिर्हरिताभिरामत्वेन नदी च स्वच्छजलपूर्णत्वेन विशेषेण दर्शनीया स्यात् । एतेनात्र महर्द्धिकातिसुखिता विलासिन्यः सन्तीत्युक्तम् ॥
१ सी डी एफू वीक्ष्यन्ते.
१ ए श्रव्यः ।. २ एफ् 'मानः ।. ३ सी डी एफ नः ॥ २४ ॥ ४ सी गर्जा क्षान ं. ५ डी एफू 'णां वाक्षा.