SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ [हे. ३.२.६२.] षष्ठः सर्गः । नैतच्चलेचलि दिनं चलन्तीचेल्या भैवोच्चरचलन्तिचेली। याद्गोत्रया यास्यनयाथ यान्तीगोत्रे नु गा मा तदयान्तिगोत्रम् ॥५३॥ समं लपन्तीमतया लपन्तिमता म मा भूरलपन्मते त्वम् । काच्या रसन्तीहतया रसन्तिहते कृथा मास्म रसद्धतां द्याम् ॥५४॥ गार्गिब्रुवे वात्सितरे कुमारिकल्पौरिसरूपे कठिचेलि यात । प्रतीक्ष्यते चण्डितमा किमाहितेयमात्रेयिमतौर्विगोत्रा ॥ ५५ ॥ पङ्गुब्रुवा भोगवतिब्रुवेयं त्रुवा गौरिमतिब्रुवासौ । अस्वीतराश्च स्त्रितरास्तथोचुः सविड्रायामिति लाटपुर्याम् ॥५६॥ ५३-५६. सविड्वरायां सोपद्रवायां लाटपुर्यामनीतराश्चाप्रकृष्टा: स्त्रियश्च तथा खितराः प्रकृष्टखियश्चेतीदमूचुः । तदेवाह । हे चलचेलि मन्दगतित्वान्निन्द्यगमने चलन्तीचेल्या मन्दगतिकाया नैतदिनं भयेन नश्यमानत्वाच्छीघ्रगतेरेवायमवसर इत्यर्थः । तस्मादुचैरतिशयेनाचलन्तिचेली शीघ्रगमना भव । अथ यदि हे यान्तीगोत्रे निन्द्यगमनेनया प्रत्यक्षया याद्गोत्रया निन्द्ययानया सह यासि तत्तदायान्तिगोत्रामनिन्धगमनाम् । मामित्यर्थः। मानुयासीमत्पृष्ठे मा स्म लग इत्यर्थः । तथा हेलपन्मतेवाचाले लपन्तीमतया वाचाटया समं सह त्वं लपन्तिमता वाचाटा मा स्म भूः। भयेन निभृतं नश्यमानत्वेन शब्दस्यानवसरात् । तथा रसन्तीहतया शब्दस्यानवसरेण निन्द्यशब्दया काझ्या कृत्वा हे रसन्तिहते १ ए सी नैतिच्च. २ ए सी लच्चैलि° ३ ए सी मवैचै'. ४ बी या प्रया'. ५ ए सी द्धता था. ६ ए सी तौविगो'. ७ ए सी डी पड. ८ ए सी योचु स. १ ए सी या पत्य. २५ सी डी निन्धासन. ३ डी सह ल'. ४ बी सरणे नि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy