________________
४७०
द्याश्रयमहाकाव्ये [चामुण्डराजः] त्वं मद्रिकाम्बो नु सहोसि दत्ताभायं द्वितीयामतिराशु कर्तुम् । आक्रन्दिकाभार्यममुं तथाप्येप्यामो वयं विक्रममीक्षितुं ते ॥४१॥
४१. हे कुमार यद्यपि त्वं द्वितीया लोकेभ्योन्या सर्वोत्कृष्टेत्यर्थः । मतिर्यस्य स तथा मन् दत्ताख्या भार्या यस्य तममुं लाटमाक्रन्दिकाभायं लोटवधेन रुदद्भार्यमाशु कतुं सहोसि शक्तोसि । क इव । मद्रिकाम्वो नु । मद्रेषु भवा । वृजि" [६.३.३८] इत्यादिना के मद्रिकाम्वा माता यस्य स नकुलः सहदेवो वा स इव । तथापि ते तव विक्रममीक्षितुं वयमेष्यामः ।।
तद्धित। मद्रिकाम्बः ॥ अंक । आक्रन्दिकाभार्यम् ॥ पूरणी । द्वितीयामतिः ॥ भाख्या । दत्ताभार्यम् । इत्यत्र "तद्धिताक" [५५] इत्यादिना न पुंवत् ॥ तं वैदिशीमातृकमेतु नैयङ्कवीमति कुञ्जर एष लाटम् । मामोतु नेयङ्कवबुद्धितायाः फलं स माञ्जिष्ठपटीक आराव ॥४२॥
४२. एष कुञ्जरो वैदिशी विदिशापुर्या भवा जाता वा माता यस्य॑ स तं लाटमेतु । यतः किंभूतम् । न्यङ्कर्मंगभेदः कृष्णखिकेण विपुल: कुटिलस्वभावश्च । तस्येयं नैयङ्कवी सा मतिर्यस्य तं महाकुलक्षणेभप्रेषणात्कुटिलमतिमित्यर्थः । ततश्च स लाटो नैयकवबुद्धिताया अस्याः कूटमतेः फलमागददूराच्छीघ्रं प्राप्नोतु । किंभूतः । माजिष्ठी मंञ्जिष्ठया रक्ता पटी यस्य सः । लाटदेशे हि मासिष्ठी पटी भूमिजलादिगुणेनातिसुरङ्गा प्रायः स्यात् ।
१ए सी लाधव. २ ए सी डी ससह. ३ ए सी ते व. ४बी अक् । मा. ५ए सीत् । इव । तथापि ते न विक्रममी . ६ ए सी डी दिशि पु. ७ ए सी डी °ता च मा. ८ ए सी स्य ततं. बी स्यतं. ९ डी °तः । म'. १. एसी मविष्ट.