SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ [ ३० ३.२.४८. ] षष्ठः सर्गः । तौ मातरप्राक्पितरावुषासानक्तस्य देवौ यदि पश्चिमायाम् । इहोदयेतां कचिदप्युषासासोमौ तदोष्ठे वलिमाज्युभोयम् ।। ३६ ।। ३६. तौ प्रसिद्धावुषासानक्तस्य प्रभातराज्योर्मातिरप्रापितरौ जनकत्वान्मातरपितरतुल्यावुषासासोमौ सूर्यश्च सोमश्च देवाविह जगति क्वचिदपि कस्मिन्नपि काले यदि पश्चिमायां दिश्युदयेतां तत्तदोष्ठे वलिमान रेखावानयं गजः शुभः । गजस्यौष्ठे हि वलयो महादोषः ॥ मृगौ च मातापितरावमुष्य श्वासस्तथावस्करगन्धिरेषः । दुःखास्पदं स्यादमुना हि रम्भोरुभार्यकः शोभनभार्यको वा ३७ ४६७ ३७. मृगौ च मृगजाती च हस्तिनावमुध्य गजस्य मातापितरौ तथामुष्य गजस्यैष प्रत्यक्षोपलभ्यमानः श्वासो मुखैवातो वस्करान्नमलं तत्संबन्धात्तद्देशोप्यवस्कर स्तस्यैव गन्धो यस्थ सोस्त्यत एवामुना गजेन कृत्वा रम्भोरूभार्यकः कदलीस्तम्भसुकुमारोरुभार्येपि शोभनभार्यको वा प्रेमाद्यतिशायिभार्यो वापि नृपादिः प्रकृष्टभार्योपभोगभङ्गहेतुमहाविपदात्या दुःखास्पदं स्यात् ॥ ४ उषासानक्तस्यै । इत्यत्र " उषासोबस : " [ ४६ ] इत्युपस उपासादेशः ॥ केचित्तु सूर्यशब्दस्यापीच्छन्ति । उषासासोमौ ॥ मातरपितरौ । मातापितरौ । इत्यत्र " मातर" [ ४७ ] इत्यादिना मातरपि 1 तरेति वा निपात्यते ॥ अवस्कर आस्पदशब्दौ " वर्चस्कादिषु" [४८] इत्यादिना निपात्यौ ॥ १ बी डी दौष्ठे- २ एसी वार्य. १ बी डी 'सदौ ४ए सीप सोम. २ ए सी 'लभ्यः मा. ३ ए सी डी 'खतो. ५ सी स्थस्य'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy