________________
२०
व्याश्रयमहाकाव्ये
[मूलराजः] स्वानुकुलान् स्वजनादींश्च पोषयति तथा धर्मोप्यत्रत्यजनविनयलक्षणेन महाबलेन बलिष्ठत्वादहंकारादीन स्वशत्रूनभिभवति स्वानुकूलान दानशीलादींश्च पोषयतीत्यर्थः । अत एव प्रेकति प्रकर्षेणैक इवासाधारण इवाचरति । बलिष्ठत्वेन निःसपनत्वान्निरुपमो भवतीत्यर्थः । उत्प्रेक्ष्यते । प्रौषधयन । पूर्ववदुत्प्रेक्षात्रावसेया । प्रकर्षण बलकान्त्यादिवृद्धिकरीमोषधिं कुर्वन्निव । णिज् । करोति: सामान्यकरणार्थोपि प्रस्तावादिह विशेषे भक्षणकरणे वर्तते । यद्वा । अनेकार्थत्वाद्धातूनां करोतिरिह भक्षणार्थस्तेनौषधिं भक्षयन्निवेत्यर्थः । यो हि बलकान्त्यादिवृद्धिकरीमोषधिं भक्षयति स तत्प्रभावादोजस्वी निरुपमश्च स्यात् । अचिन्त्यो हि मणिमंत्रौषधीनां प्रभावः ।।
रजतं चारु ईशित्वा हारि अत्र च काश्चनम् ।
दघियेतन्मधुवेतत्कुमारी एवमूहते ॥ २२ ॥ २२. सुगमः । नवरं हारि जात्यत्वाद्रम्यम् । एतत्प्रत्यक्षं वस्तु दधि वर्तते । एवं तथैतत्प्रत्यक्षं वस्तु मधु वर्तते । एवं च बालिका वितर्कयति । सावाद्वाल्याञ्चैवमूहः । एवमिति भिन्नक्रमे यथास्थानं योजित एव । एवंशब्देनैव कर्मण उक्तत्वादधियेतदित्यत्र मधुवेतदित्यत्र च नामार्थमाने प्रथमैव ॥
रोदस्यौ पावयन्त्येनोलवन्यौर्वाग्निनायिनी ।
श्रव्येतिकृत्वा ब्राह्यत्र गव्यनाव्यजला नदी ॥ २३ ॥ २३. अत्र पुरे ब्राह्मी ब्रह्मणोपत्यं नदी सरस्वत्यस्ति । कीदृशी । ब्रह्मणः पुत्रीत्वेन महातीर्थत्वादेन: पापं लूयतेनयेत्येनोलवनी । अत एव रोदस्यौ द्यावापृथिव्यौ पावयन्ती पवित्रयन्ती । तथौर्वाग्निं वडवानलं
१ एफ पति. २ बी क्षणम. सी एफ क्षणे मो. ३ सी डी एफ प्रेक्षते. ४ बी सी डी रोमौष. ५ बीसी रीमौष. ६ एफ मनमहौष'. ७ सीडी 'स्तु मधु. ८ एफ येव त. ९ सी डी यन्ति । सा. १० ए बी न्ती त.