________________
[है• ३.२.२७.] षष्ठः सर्गः।
४५९ वर्षासुजं तदिविजेशधन्व रत्नैर्दधत्मादृषिजो नु मेघः । नीलं कुरोश्छत्रमिदं निरस्यत्कालेजमप्यातपशारदिज्यम् ॥२४॥ ___ २४. इदं प्रत्यक्षं कुरोः कुरुदेशराजस्यच्छत्रं वर्तते । कीदृशम् । प्रावृषिजो मेघो नु यथा वार्षिको घनो वर्षासुजमिन्द्रधनुर्दधत्स्यादेवं वर्षासुजं वर्षाकालजातं तत्पञ्चवर्णत्वेन प्रसिद्धं दिविजेशधन्व दिविजानां देवानामीशः शक्रस्तस्य चापमिव रत्नेश्छत्रानुलोम्याद्वक्राकारेणानुस्यूतैः पञ्चवर्णमणिभिः कृत्वा दधत्तथा नीलं हरितवर्ण तथा कालेज शरत्काले जातमातपशारदिज्यमपि शरदि जातः शरदिजस्तस्य कर्म शारदिज्यमातपस्य यच्छारदिज्यं संतापकत्वं तदप्यत्युग्रं शरत्कालातपमपीत्यर्थः । निरस्यत् सान्द्रच्छायाकारित्वात् ॥
दिविज । प्रावृषिजः । वर्षासुजम् । शारदिज्यम् । कालेजम् । अत्र "घुमापृ" [२७] इत्यादिना सप्तम्पलुप् ॥ अप्सव्यदिव्याश्वसमास्तुरङ्गास्तेजस्य नावो नु रयेप्सुचर्यः । एतेप्सुयोनिच्छवयो जनो यैः पिपासितोप्यप्सुमतिन हि स्यात्
॥२५॥ २५. यैः कृत्वा जनः पिपासितोप्यप्सु जलेषु मतिर्मनो यस्य सोप्सुमतिर्न हि स्याद्रूपकान्त्यादिलक्ष्म्याक्षिप्तचित्तत्वाद्यान्पश्यलोकस्तृषमपि न . जानातीत्यर्थः । त एते प्रत्यक्षास्तेजस्य तेजदेशराजस्य तुरङ्गाः । किंर्भूताः । अप्सुयोनिच्छवयो विद्युद्दीप्तयस्तथा रये वेगविषयेप्सुचर्यों नावो नु जलचारिवेडातुल्या अत एप्पिव्यो
१ ए सी रोच्छत्र १ ए सी जात श. २५ सी च्चाया. ३ ए सी विजः । व. डी "विजः । प्रा. ४ ए सीम् । म. ५ए सी डी तिनमो य. ६ए सी "भूत म. ७बी दरोडा. ८ वी वाप्सान्यो.