________________
ध्याश्रयमहाकाव्ये [चामुण्डराजः] विद्याभिः । इतरेतर संकेतयोगास्कलामिः शास्त्रैः । इत्यत्र "परस्पर" [1] इत्यादिनापुंस्यमादेशो वा ॥
परस्परमप्रतिबाधनेन गुणैः । अन्योन्यमुत्कर्षितया गुणैः । इतरेतरं संकेत. योगादीगुणैः । इत्यत्र "परस्पर" [] इत्यादिना पुंसि स्यादेरम्वा ॥ पक्षे । देषं परस्परेण । भन्योन्यस्य भूषाम् । इतरेतरस्य विशेषान् ॥ शेषविभयन्तानि विकल्पोदाहरणानि ज्ञेयानि । एवं च स्त्रीनपुंसकयोरमामौ द्वावादेशौ वा भवतः॥ यत्सेवमानः स्पृहयंश्च भक्तस्तथोपवृद्धं विरमन्नुपाक्षात् । असावधिस्यव्यसनी तदस्योपप्राच्यसंस्कारमलं निमित्तम् ॥ ५॥
५. यदिति क्रियाविशेषणम् । यदसौ कुमारोभूत् । कीदृक् । उपवृद्ध वृद्धा ज्ञानादिवृद्धास्तेषां समीपाय स्पृहयंश्च ज्ञानाद्यर्थमभिलपन्वृद्धानां समीपस्य भक्तस्तथा बहुमानवांश्चात एव वृद्धानां समीपमासेवमानोत एव चोपाक्षात् । अक्षब्देनात्र पाशकोपलक्षितं द्यूतमु. च्यते । तत्समीपाद्विरमन् धूतव्यसनानिवृच इत्यर्थः । यद्वा । विषयविषयिणोरभेदोपचारादक्षशब्देनेन्द्रियविषयाः शब्दरूपरसगन्धस्पर्शा उच्यन्ते । तत्समीपाद्विरमन जितेन्द्रिय इत्यर्थः । अत एव चाधिस्त्रि स्त्रीष्वव्यर्सन्यत्यासक्तिरहितः । तज्ज्ञायतेस्य कुमारस्योपप्राच्यसंस्कार प्राच्याः पूर्वजन्मभवा ये संस्कारा वृद्धसेवादिनिरन्तराभ्यासजनिता वासनास्तेषामनन्तरपूर्वभवापेक्षया सामीप्यं कर्तृ अलं समर्थ निमित्र कारणम् । यदयं स्वभावेनैव गुरुसेवापरायणत्वादिगुणोपेतस्तत्रानन्तरपूर्वभवाभ्यास एव हेतुरित्यर्थः ।।
-
१सी शोशा । प. २९ तयोः गा'. ३ बी न्यभू. ४ए नि वक. ५ वी वस्त्री. ६सी त अब. ७बी यात ए'. ८ एसी सनी सत्या. ९ °स्कारी वृ