SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ [१० ३.२.१.] षष्ठः सर्गः। ४४५ इतरेतरस्माद्युतेन पार्थक्येन दृष्टे तथापि ते शक्तिक्षमे यौवनसंयमित्वे चात्र कुमारेन्योन्यां चिरं योगं संबन्धं चक्रतुः । यतस्तादृशनीतिमाज्यनन्यसदृशन्यायनिष्ठे शक्तिक्षमाद्यनुरूपाचरिते वा । यो हि ताहशनीतिभागपूर्वन्यायनिष्ठो विरुद्धभृत्यानुरूपाचरणभाग्वा स्वामी स्यात्तत्र मिथो विरुद्धोपि भृत्यजनः स्वाम्यावर्जनाविशेषेण विरोधं विहायान्योन्यं चिरं योगं करोति ॥ संकेतयोगादितरेतरं नु कलाश्च शास्त्राणि च धीगुणाश्च । चक्रुर्विशेषानितरेतरस्यान्योन्यस्य भूषां च वितेनिरेस्मिन् ॥४॥ ४. इतरेतरं संकेतयोगानु संकेतो वयमत्र कुमारेन्योन्यं विशेषान्र्भूषां च विधास्याम इति मिथोभ्युपगमस्तल्लक्षणो यो योगः संबन्धस्तस्मादिवास्मिन्कुमारे कलाश्च धनु:कलाद्याश्च शास्त्राणि च धनुर्वेदादीनि च धीगुणाश्च शुश्रूषाद्या अष्टौ बुद्धिगुणाश्चेतरेतरस्य विशेषान गुणोत्कर्षाश्चक्रुराधारस्यास्स विशिष्टत्वात्कलादयोन्योन्यं विशेषितवन्त इत्यर्थः । अत एवान्योन्यस्य भूषां च शोभां च वितेनिरे। कृतसंकेता हि संकेतिते स्थाने मिलिताः संकेतितमर्थ कुर्वन्ति ॥ पाबमला च तेजःसौम्ये च परस्परां मिषती। पक्तिक्षमे यौवनसंयमित्वे अन्योन्या योगं चक्रतुः । शकिक्षमे यौवनसंयमित्वे इतरेतरां युते । अत्र "पर. स्पर" [] इत्यादिनासि स्वादेरामादेशो वा । परस्परमप्रतिबाधनेन मित्रैरिव विद्यामिः । अन्योन्यमुत्कर्पितया मित्ररिव १ सी न काग. १ डी न्योम्यं चि. २ टी वे च । यो. ३ सी षा भूषांश्च वि. ४ ए भूषांश्च वि. डीभूषाश्च वि. ५ ए सी थोत्युप. ६ सी शिषत्वा. ७ वी बादिभिः
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy