________________
पञ्चमः सर्गः ।
ब्रह्मादीनां त्वमन्तादी तवाद्यन्तौ न कश्चन ।
..
अग्नीषोमो वायुतोयाद्याश्व ते तिलमाषवत् ।। १३७ ॥
[ है० ३.१.१५७.]
४३७
१३७. ब्रह्मादीनामादिपदाद्विष्ण्वादीनामन्तादी संहारांत्सर्जनाच निधनोत्पत्तिकारणं त्वम् । यदुक्तम् ।
ब्रह्मादीनपि भगवंस्त्वमेव संसृजसि संहरसि चैव । इति । तत्र त्वाद्यन्तावुत्पत्तिविनाशहेतुरनादिनिधनत्वान्न कश्चन । उक्तं च । अनादिनिधनं देवं जगत्कारणमीश्वरम् । इति ॥
अतश्चाग्नीषोमौ वह्निदेवतासोमदेवते वायुतोयाद्याश्च वायुदेवतजलदेवतायाश्चाद्यपदाद्भूदेवतादयश्च ते तब तिलमात्रवत्तिलमाषा इवास्पास्त्वदंशमात्रमित्यर्थः ॥
स्कन्दश्रीदसुतेसखे त्यक्त्वा सखिसुतादिकम् ।
यस्त्वां ध्यायेत्रिलोक्यां स्यादस्त्रशस्त्रैः स दुर्जयः ॥१३८॥
१३८. स्कन्दश्रीदौ कार्तिकेयधनदौ सुतसखायौ यस्य हे स्कन्दश्रीदसुतसखे हे शंभो सखिसुतादिकमादिपदाद्भार्यादिकं संसारबन्धनं त्यक्त्वा यस्त्वां ध्यायेत्स नरखिलोक्यामस्त्राण्यामेयादीनि दिव्यायुधानि शस्त्राणि खङ्गादीनि द्वन्द्वे तैर्दुर्जयः स्यात् । केनाप्यसौ न जीयेवेत्यर्थः ॥
१ सी नांदीत २ ए सी डी 'तसुखे.
१ ए सी 'रास्रर्ज. १ ए सी डी 'ताबा'. तदे'. ५ बी "तसुखा,
डी
६ सीन्धनेत्य..
३ बी द्या. ४ ए सी ७ सी नाप्यसौ.