________________
[है० १.२.१०.]
प्रथमः सर्गः ।
१५
नय इह मर्त्यलोकेन्ध्यादापृच्छन्ति यान्ति । तथा ख ऊर्ध्वलोके पगर्छन्ति प्रकर्षण गच्छन्ति । तथाहिसमन्यधोलोके च प्रार्छन्ति । यतस्तपोमयैस्तपांसि प्रकृतानि कारणतया येषु तैस्तपोमयैः स्वतेजोभिः स्वकीयप्रभावैग्नपेता: संयुक्ताः । तपःप्रभावादनत्यमुनीनां त्रिभुवनमपि गृहाङ्गणमित्यर्थः । एवं च तप:प्रभावोपेतमहामुन्यवस्थित्यास्य पुरस्यातिपावित्र्यं सूचितम ।।
प्रार्छन्ति । परार्छन्ति । इत्यत्र “ऋत्यारुपसर्गस्य"[९] इत्यार ॥ उपसर्गस्येति किम् । इहर्च्छन्ति । येन धातुना युक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञास्तेनेह म स्यात् । प्रर्षयः ॥
पार्षयन्ति शमे धर्मधुरायां प्रर्षभन्ति च ।
अत्र प्रऋजवन्त्येव दुर्जनेष्वपि साधवः ॥ १५ ॥ १५. अत्र पुरे साधवः सजनाः शम इन्द्रियजयविषये प्रार्षय. न्ति प्रकर्षेण ऋषय इवाचरन्ति । “कर्तुः किप्" [३.४.२५.] इति विप् । तथा धर्मधुगयां धर्मकार्यप्राग्भारविषये प्रर्षभन्ति प्रकर्षेण ऋपभा इवाचरन्ति यथा धवलाः शकटादिधुरं वहन्त्येवं धर्मधुरामिति । अतिधार्मिका इत्यर्थः । अत एव दुर्जनेष्वपि खलेष्वपि प्रजवन्त्येव प्रकर्षेण ऋजव इवाचरन्ति । हितमेव कुर्वन्तीत्यर्थः ॥
प्रार्षन्ति प्रर्षभन्ति । इत्यत्र "नान्नि वा" [१०] इति वा आर् ॥ केचित्तु पक्षे इस्वत्वमपीच्छन्ति । प्रजवन्ति ॥
पाल्कारायितवेणीकाः मलकारायितभ्रुवः। मल्कारयन्ति खे दन्तज्योत्स्नयात्र मृगीदृशः॥ १६ ॥
१ सी डी नेष्विव सा. १एफ कीयैः प्र. २ सी डी प्रतापैर. ३ एफ व स. ४ सी डी पं . ५ सी डी एफ पि प्र. ६ सी डी क.