SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४०६ व्याश्रयमहाकाव्ये [ मूलराजः ] धेनुप्रियाः स्युः । स प्राहोरिः शङ्खमादध्मौ च न केवलं क्ष्वेडां विदधे विजयशङ्खमवादयश्च । कीदृक्सन् । प्रतीच्यः पश्चिमाः कविरूढिमाश्रित्य मध्यदेशापेक्षया वैयाकरणमतं चाश्रित्येशानतो नैर्ऋतिं गच्छन्त्याः शरावतीनद्या अपेक्षया सुराष्ट्राणां पश्चिमत्वात्सुराष्ट्र देशोद्भवा गावो धेनबो घनं येषां तान्प्रत्यैग्गवघनान्नृन्सौराष्ट्रान्प्रीणन् शत्रुजयेनाहादबन् । कीदृशं शङ्खम् । आपरार्णवं पश्चिमाच्धौ जातम् । तथाधिकषाष्टिकमधिकया षष्टयार्थाद्रम्मादीनां क्रीतं श्रेष्ठत्वेन महामूल्यमित्यर्थः ॥ मूलराजोय दाशाईषाण्मातुरगुरूपमः । व्यजाताहवे सास्त्रां द्वितूणीं दषदुत्थितः ॥ ८० ॥ ८०. अथ शङ्खध्मानानन्तरं द्वे अहनी जातस्य "सर्वाश" [ ७.३. ११८] हत्यादिनाव्बह्वादेशे च व्यहजातो य आहवो रणस्तत्र मूलराजो रणाय।न्धितः । कीदृक्सन् । दशार्हस्य वसुदेवस्वायं दाशाहों विष्णुः षण्णां मातॄणां कृत्तिकानामपत्यं “संख्यासम्” [६.१.६६] इत्यादिनाणि मातुरादेशे च षाण्मातुरः स्कन्दस्तस्य गुरुः पिता शिवो इन्हें ताभ्यासुपमा शूरत्वादिगुणैः साम्यं यस्य सः । अत एव साखां बाणपूर्णां द्वितूणीं तूणीरौ दधत् ॥ रणदेवाम् । इत्यत्र “कृचेन" [ ९५] इत्यादिना तत्पुरुषः ॥ नीलोत्स्यैः । इत्यन्त्र “विशेषणं” [ ९६] इत्यादिना कर्मधारयः ॥ विशेषणविशेभ्ययोः संबन्धिवचनत्वादेकतरोपादानेनैव द्वये लब्धे द्वयोरुपादानं परस्परमुभयोर्व्यवच्छेद्यम्बवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् । तेनेह न स्वाचह्नकः सर्पः । लोहितस्तक्षकः । नझसर्पोन्यवर्णो वा तक्षकोस्ति ॥ यस्तु गुणादिशब्दानामेव समासस्तत्रो भयोरपि पदयोरप्रधानत्वात्कामचारेण पूर्व I १ सी 'हरिश' २ ए सी डी नैरुतिं. ३ ए लक्ग्ग ४ सी 'मुपप.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy