________________
३७८
व्याश्रयमहाकाव्ये
[ मूलराजः ]
इस्तेकृत्य । पाणौकृत्य । इत्यत्र " नित्यं " [१५] इत्यादिना गतिः प्राक ॥ प्राध्वंकृत्य । इत्यत्र “प्राध्वं बन्धे” [१६] इति गतिः प्राक्क ॥ जीविको कृत्य । उपनिषत्कृत्य । इत्यत्र “ जीविका " [१७] इत्यादिना गतिः प्राक ॥
समासे नाम नाम्नेव शस्त्रं शस्त्रेण युध्यथ । ऐकार्थ्येयोजि विस्पष्टपटुभिर्गुर्जरैर्भटैः ॥ २९ ॥
२. अथैवं दैत्यैर्युद्धस्य प्रारम्भानन्तरं युधि रणे समासे मिथः संबन्धेसत्यैकार्थ्ये। निमित्तसप्तम्यत्र । विजयलक्षणैककार्येण हेतुना विस्पष्टपदुभि: प्रकटं शस्त्रविद्यानिपुणैर्गुर्जरैर्भटैः शस्त्रं खङ्गादि शस्त्रेणाग्प्रिहरणेन सहायोजि मीलितम् । यथैकायें सामानाधिकरण्ये सति य: समस ऐकपद्यं तस्मिन्नाम नाम्ना सह विस्पष्टपटुभिः प्रकटं शब्दविद्याचतुरैयज्यते ॥
समासे नाम नाम्न्नैकार्थ्ये इत्युपमया " नाम नाम्ना" [१८] इत्यादि समार्ससंज्ञासूत्रं ज्ञापितम् । लक्षणं चेदमधिकारश्च । तेन बहुव्रीह्यादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा स्यात् । यथा विस्पष्टपटुभिरित्यत्र गुणविशेषणस्य गुणवचनेन समासः ॥
त्रिदशारिषु ते द्वित्रानासन्नत्रानदूरषान् ।
अधिकाष्टानध्यर्धषान्युगपद्वदृषुः शरान् ।। ३० ।।
३०. ते गूर्जरभटास्त्रिदशारिषु त्रिदेश त्रिदशा देवा: " प्रमाणीसंस्याट्टः” [७.३.१२८.] इति ङः । त्रिंशदेता देवतास्त्रयस्त्रिंशदेता देवतास्त्रिं
99
१ सी इतत्र. २ बी कृत । इ° ३ ए सी 'कात्यत्र उ° ४ बी कृत । ६°, ५ ए सी त्यैक्यार्थे । नि. ६ डी यत्समा ७ सी डी मासे ऐ°. ८ ए सी डी ससूत्र सं. ९ बी विशिष्ट १० ए सी त्रिदश त्रिर्दशा.