________________
[ है० १.१.३.] प्रथमः सर्गः ।
गम्लुतं पल्लुतं शक्ललतं लाक्षणिका इव ।
अवाक्षरमपि प्राज्ञा न वदन्ति निरर्थकम् ॥ ९ ॥ ९. यथा लाक्षणिका वैयाकरणा गमः पत: शकश्च धातूनां संबन्धिनम् लतम लकारमैनुबन्धमङ्कार्यार्थत्वानिरर्थकं न वदन्ति तथात्र पुरे प्राज्ञाः पण्डिताः प्राज्ञत्वादक्षग्मपि स्वरव्यञ्जनमात्रमपि निरर्थकं निःप्रयोजनं न वदन्ति । एतेनात्रत्यजनानामवाचालत्वमुक्तम् ॥
अस्मिन् महऋषिस्तुत्ये नृपाशममहाऋषीन् । दृष्टदेव लज्जिता जग्मुस्ते द्यां सप्त महर्षयः ॥ १०॥ १०. अस्मिन् पुरे । नृपान् । अपिरत्र गम्यते । प्रचण्डदोर्दण्डोग्रान राज्ञोपि शमेन कृत्वा महाऋषीन् महामुनितुल्यान् दृष्ट्वा लजिता इव तेतिशमित्वेन प्रसिद्धाः सप्त महर्षयो मरीचि१अत्रिरअङ्गिरः३पुलस्य॑४पुलह ५ऋतुक्ष्वसिष्ठाया ७ महामुनयो द्यां व्योम जग्मुर्गताः । योपि येनोत्तमेन गुणेनोत्तमंमन्यः स्यात्स यदान्यस्मिन्नात्मनोतिहीनेपि तं गुणं पश्यति तदा लोकोपहासेन लजितो देशान्तरं याति ।।
भान्ति मत्तेभगामिन्यो रम्भास्तम्भनिभोरवः ।
सर्वर्तुमण्डितोद्यानेष्वत्रकारभ्रुवोङ्गनाः ॥ ११ ॥ ११. इह पुरे सर्वर्तुमण्डितोद्यानेषु सर्वैः षड्भिर्ऋतुभिरुपचाराद्धेमन्तशिशिरवसन्तप्रीष्मवर्षाशरदाख्यषडतुजन्यपुष्पफलादिभिर्मण्डितानि देवताप्रभावादिनावतरणाद्भूषितानि यान्युद्यानान्युपवनानि तेषु मत्तेमगामि१ सी शल. २ सी एफ क्षणका'. ३ सी पि ज्ञा. ४ सी 'दति नि'.
१ एफ मका . २ एफ कार्यर्थ'. ३ सी डी पि नि. ४ डी राक्ष उपश'. एफ् राशेपि. ५ सी शोपशमनं कृ. ६ ए बी सी एफ स्त्यकल. ७५ पा वशिष्ठा. ८ एफ ख्या मु. ९ सी लोप. १० सी देवाम. डी देवप्र. ११ सी डी रणभृ. १२ सी डी 'नानि.