SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३३४ व्याश्रयमहाकाव्ये [ मूलराजः ] हारिसमीपं प्राप । कीदृक्सती । जानपदां सुराष्ट्र देशोद्भवां सुरां मद्यं पात्री पिवन्त्यत एवे शोण्या रक्तयाक्षिभासा नेत्रज्योतिषा कैवरा कर्बुरा । तथा रणकामुका युद्धेच्छुरत एव रोपशोणा क्रोधादारक्तात एव च कुशायोमिश्रं काष्ठमयं शस्त्रं सह तया वर्तते या सा । एतेन श्रेणिबलागमनोक्तिः । श्रेणिबलं तत्रादिकम् ॥ 1 1 भाजी । गोणीम् । नागीभिः । स्थलीभिः । कुण्डि । कालीम् । कुशी । कामुकि । अधिकटि । कबरी । इत्यत्र " भाजगोण" [३०] इत्यादिना ङीः ॥ अन्यत्र | भाजा । गोणे । नागे । स्थले । कुण्डे । काले । सकुशा | कामुका | कबरा ॥ कटा । इति स्वयं ज्ञेयम् ॥ जनपदशब्दादपि वृत्ताविच्छत्यन्यः । जानपर्दी वृत्तिम् । वृत्तेरन्यत्र जानपदां सुराम् ॥ शोण्या शोणा । इत्यन्त्र “न वा शोणादेः” [३१] इति वा ङीः ॥ हयखुरहतिजन्मधूलिरुचैरथधूलीनिचिता मदाम्बुवृष्ट्वा । ज्योनिं गजपद्धतेः सुगन्ध्या परितः प्राप समस्तपद्धतीषु ॥ ५३ ॥ ५३. षड्विधेपि प्राहारिसैन्ये मिलति रथधूलीनिचिता स्यन्दनरेणुभिः सान्द्रीकृतोच्चैरतिशयिता हयखुरहतिजन्मधूलिरश्वशफघातोत्या रेणुः समस्तपद्धतीषु सर्वमार्गेषु परितो ज्यानिं क्षयं प्राप । कया कृत्वा गजपद्धतेर्हस्तिपङ्क्तेः सक्तया सुगन्ध्या नवोद्भेदात्सुरभ्या मदाम्बुवृष्ट्या । अम्बुवृष्ट्या हि धूलिः शाम्यति ॥ १ सी निविश म. २ ए सी ज्यानं ग°. २ सी व शाप्या. १ ए सी हारीस . ३ बी कई ५ सी शोष्या । ६. ६ बी मिलिते र. ७ सीतोत्थो रे. नभोद्धे'. ४ ए 'त्र जन. • ए सी डी
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy