________________
व्याश्रयमहाकाव्ये
[मूलराजः] वधूटीः । इत्यत्र "वयसि" [२१] इत्यादिना हो ॥ अनन्त्य इति किम् । वृद्धा ॥ त्रिशल्यी । इत्यत्र "द्विगो:" [२२] इत्यादिना हीः ॥ द्विद्रोणीः । इत्यत्र "परिमाणात्" [२३] इत्यादिना कीः ॥ परिमाणादिति किम् । षडषाः ॥ तद्धितलुकीति किम् । त्रिपण्याः॥ अवि(बि)खाचितकम्बल्यादिति किम् । त्रिवि(वि)स्वाः । याचिताः । शतकम्बल्याः ॥ मेदा बद्धोत्कचास्त्रिकाण्ड्या नवकाण्ड्या दशकाण्डया च रज्वा। क्षेत्रभुवः फालया द्विकाण्डाः षट्पुरुषीः परिखा विलङ्घय चेयुः ॥४६
४६. मेदा भिल्ला एयुः । किं कृत्वा । द्विकाण्डा द्विशरप्रमाणाः क्षेत्रभुवः क्षेत्रभूमी: षट्पुरुषीः षट्पुरुषप्रमाणाः परिखाश्च फालया विलङ्घयोत्प्लुत्य । कीदृशाः सन्तः । नवकाण्ड्या दशकाण्डया च नवभिर्दशभिर्वा काण्डैः शरैः क्रीतया रज्वा कृत्वा बद्धा उदूर्व कचा यैस्ते । कीदृश्या । त्रीणि काण्डानि शतः प्रमाणं यस्याः । “ प्रमाणान्मात्रद" [७.१. १३९] इति मात्रट । “द्विगोः संशये च" [७.१. १४३] इति लुप् । तया त्रिकाण्ड्या । अनेनाटविकबलागमनमुक्तम् । जातिरलंकारः ॥ द्विपुरुषया भान्स कुन्तयष्ट्या रेवत्यामतिरोहिणीशशत्रुः । नील्यावन्त्याथ नीलयोच्चैः पैठ्या नील्यादिर्नु लक्ष आगात् ॥४७॥
४७. स प्रसिद्धो लक्षो नाम राजागात् । कीदृशः । द्विपुरु
१बी दोक्तचा'. २ सी डी प्रत्यार्थ'. ३ ए सी पत्यानी . ४ ए सी °द्रि नु ल'.
१सी णादि . २ बी लुगीति. ३ बी चिता । श. ४ ए सी काण्ड्यां च. ५ ए सी डी मिर्वा. ६ ए सी मातृत् ।। ७ एसी लक्ष्यो ना.