SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ [है• २.४.१५.] चतुर्थः सर्गः। वात एव भीमा नदीः शृणोति मत्स्यग्रहणाभिलाषेण तासु जिगमिषुत्वाल्लोकादाकर्णयति ॥ उन्सिप्नुः सोरिकम्पकारी शैलेय्या भुजया गदा शिलेयीम् । सौपर्णेयीसहोदरौजाः शाक्तीकीः पौस्त्रीर्दिदेश सेनाः॥४३॥ ४३. स पाहारिः शाक्तीकी: शक्तिप्रहरणाः पौंस्नीः पुंसां पौरुषगुणोपेतानां नराणामिमाः सेना आदिदेश रणारम्भायाज्ञापयत्। कीटक् । सुपाः । केचित्त्वेनमजादिषु पठन्ति । तन्मते सुपर्णाया वापत्यं स्त्री सौपर्णेयी सुमतिनानी सगरपत्नी तस्याः सहोदरो गरुडस्तद्वदोजो बलं यस्य सः । अत एव शिलायास्तुल्या " शिलाया एयच्च " [७... R] इति चकारादेयनि शैलेयी तया शिलादृढया भुजया कृत्वा गदां मुद्रविशेषमुत्क्षिनुरुल्लालयन् । कीदृशीम् । शिलेया शिलाभिस्तुल्याम् । अत्रैय । अत एवारिकम्पकारीम् ।। पाहारेरादेशे सेना यथामिलंस्तथादशभित्तैराह । सेनान्योस्याज्ञया तदैयुस्त्यक्ता खैणीराक्षिकी सलीलाः । औशनसावाथ पाणिनीयाः सहसा चारुवलित्रया वधूटीः॥४४॥ ४४. तदास्य पाहारेरौशया सेनान्यो दण्डनायकाः सेनायुक्ता नृपा वैयुर्पाहारिसमीप आगताः । किं कृत्वा । वधूटीनवोढाः पत्नीराक्षिकीरक्षैर्दीव्यन्तीः सतीः सहसाकस्मात्त्यक्त्वा । कीदृशीः । चारु मनोझं वलित्रयमुदरमध्यवर्ति रेखात्रयमुपलक्षणत्वाच्छेषाङ्गोपाङ्गानि च यासां ताः । अथ तथा पाणिनीयाः पाणिनिप्रोक्तमहाशब्दानुशासनज्ञाः । एनेन विद्वत्तोक्तिः । तथौशनसाश्च शुक्रमोकनीतिशास्त्रज्ञाश्च । एतेन १बी सां पुरु. २बी यच । अ. ३ वी राशाया. ४ सी टीवो'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy