________________
३१६ व्याश्रयमहाकाव्ये
[ मूलराजः] सत्पथपरिमापिणां धर्मोच्छेदकानामन्यायिनाम् । कर्मणि षष्ठी। अनिर्विण्णमनिर्वेदं यथा स्यादेवं परिमापिना हिंसनशीलेन भाव्यम् । गजरक्षितानि हि तपोवनानि स्युः ॥ निर्विण्णवदामवेपमानामप्यानापख्यानमप्रभानम् । अमुना परिभूयमानमुच्चैः कतमब्रह्मपुरं दुनोति नास्मान् ॥ २८ ॥
२८. कतमद्ब्रह्मपुरं ब्राह्मणस्थानमस्मानुचर्न दुनोति न पीडयति । कीहक्सत् । अमुना पाहारिणा परिभूयमानमत एवाप्रवेपमानं भयेन समन्तात्कम्पमानम् । तथाप्रप्यानमनुपचितं क्षीणमित्यर्थः । अत एवाविद्यमानं प्रख्यानं प्रसिद्धिर्यस्य तन्निर्नामकमित्यर्थः । ततो विशेषण. कर्मधारयः । अत एव निर्विण्णवद्धर्मकर्मसु निर्विण्णमत एव चाविद्यमानं प्रभौनं प्रभा यस्य तन्निस्तेजस्कम् । तस्मात्काने सह मैत्रीति भावः । यदपि ब्रह्मपुरं झानाधारः शरीरं तदपि पापै रोगादिना वा परिभूयमानमत एवाप्रवेपमानाप्रप्यानाप्रख्यानं निर्विण्णवदप्रभानं च सत्कतमन दुनोति किंतु सर्वमपि ज्ञानोच्छेदशकया दुःखयतीत्युक्तिः। अभपवनमस्य चान्यदारमगमनदुष्परिकामिनः कुकर्म । प्रभवति परिभाव्यमानर्मप्रख्यापनममप्यायनं भृशं नः ॥ २९ ॥
२९. कुकर्म परखीगमनादि । अस्य पाहारेग्न्यदारप्रगमनदुष्परिकामिनः परस्त्रीसेवनविषयदुष्टाभिलाषशीलस्य सतः प्रभवतीष्टे । कीदृशम् । अप्रपवनमिहलोकपरलोकविरुद्धत्वेनापवित्रमत एव भृशमत्यर्थ परिमाव्यमानमस्माभिश्चिन्त्यमानं सनः। कर्तरि षष्ठी। अस्माभिरप्रख्यापनमप्रप्यायनं च । चो भिमक्रमेत्र योज्यः । प्रख्यातेः प्रप्या१ए सी डी मत्र प्र.
११बीसीडी पिणा हिं.२वीति । म. ३ सीमा य. ४ वी न मैं. ५५ सी पीरिति. ६ एसीसीईटे प्रमवति । की. ७ सीसी यन पचो.