________________
तृतीयः सर्गः ।
वेsयहं तद्वयं ब्रूमः पार्थो यः फल्गुनीष्वभूत् ।
स त्वं जयेति वक्तास्य पुरोधास्तिलकं व्यधात् ॥ ८० ॥ ८०. पुरोधा अस्य राज्ञो यात्रोचितं तिलकं व्यधात् । कीदृक्सन् । वक्ता वदन् । किमित्याह । तदहं वेद्मि जाने तथा तद्वयं श्रूमस्तश्चाहं सर्वत्र कीर्तयामि । यत्किम् । यः पार्थः फाल्गुनोर्जुनः फल्गुनीषु फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ते कालेभूज्जातः स पार्थस्त्वं भवानेव । तत्पराक्रमादिगुणोपेतत्वात् । तस्माज्जय शत्रुपराभवेनोत्कृष्टो भव । अर्जुनो हि शत्रुजयेनोत्कृष्टोभूदिति ॥
1
[है० २.२.१२१. ]
धूयमाने अलक्ष्येतां राजानमनु चामरे ।
शशाङ्कमनु फल्गुन्यौ किं नु प्रोष्ठपदे नु किम् ॥ ८१ ॥
२५७
८१. राजानं मूलराजमनुलक्ष्यीकृत्य धूयमाने बीजनायें चल्यमाने चामरे अलक्ष्येतां लोकैरुत्प्रेक्षिते । कथमित्याह । शशाङ्कं चन्द्रमनुर्लेक्ष्यीकृत्य किं नु फल्गुन्यौ किं नु किं वा प्रोष्ठपदे । धूयमानचामरद्वयमध्यस्थो राजा पूर्वफल्गुन्योः पूर्वभद्रपद्यौस्तारिकयोर्मध्यस्थश्चन्द्र इव लोकत इत्यर्थः ॥
यान्तु याम्यां दिशं प्रोष्ठपदासु तव शत्रवः ।
जय त्वं यूयमेधध्वमिति ज्योतिर्विदोवदन् ॥ ८२ ॥
८२. ज्योतिर्विदोवदन्नात्मानुरूपा आशिषो ददुः । यथा हे राजंस्तव शत्रवो प्राहरिष्वादयः प्रोष्ठपदासु प्रोष्ठपदभिः पूर्वभद्रपदाभिरुत्त
१ ए दिशि प्रो.
१ एफू 'नीभि. २ एभियुक्ते. ३ सी य वल्य.' डी य चाल्य ४ ए 'लक्षीकृ. ५. सी डी योमं ६ सी डी लोके शा. ७ सी तिवेंदो° ८ बी दादिभि
३३