________________
[है० २.२.८६. ]
तृतीयः सर्गः ।
२४१
स्वं तुपाराणां नेतरि । तरलत्वस्य वीरुधां नेतरि । यद्वा दिशां नेतरि किअस्कान् । तरलत्वस्य वीरुधां नेतरि । इत्यत्र "वैकत्र द्वयोः " [८५] इति द्वयोःकर्मणोरेकतरस्मिन्वा पडी । अन्यत्र पूर्वेण नित्यमेव ม
भ्रान्तानां शायिका । इत्यत्र “कर्तरि” [८६] इति षष्ठी ॥
कृतिः स्वराणां
चीभिर्विपञ्चीनामिवाबभौ ।
ऋतुमत्येव काशाल्याः कुसुमस्य प्रकाशनम् ॥ ४९ ॥
I
४९. यथा विपश्वीनां वीणानां कर्त्रीणां स्वराणां कर्मणां कृतिराबभौ । एवं कौवीभिः कर्त्रीभिः । शरदि हि कौभ्यो मधुरं कूजन्ति । तथा यथा ऋतुमत्या स्त्रिया कार्या कुसुमस्यै स्त्रीधर्मस्य कर्मणः प्रकाशनं भवत्येवं काशाल्याः काशतरुपतेः कर्त्याः कुसुमस्य । जातावेकवचनम् । पुष्पाणां कर्मणां प्रकाशनमाविर्भावो बभूव ॥
शृङ्गस्य त्याग एणानां मित्रस्येव दुरात्मभिः ।
बिभित्सा भेदिका चोक्ष्णां पयसामिव रोधसः ॥ ५० ॥
५०. यथा दुरात्मभिर्दुर्जनैः कर्तृभिर्मित्रस्य कर्मणस्त्यागः स्यात्तथैणानां कर्तॄणां शृङ्गस्य कर्मणस्त्यागोभूत् । शरदि हि रुरुशम्बरादिमृगाणां शृङ्गाणि पतन्ति । तथोक्ष्णां कर्तॄणां रोधसस्तटस्य कर्मणो बिभित्सा भेत्तुमिच्छा भेदिक च विदारणं चाभूत् । पयसामिव यथा जलैर्वर्षासु रोधसो बिभित्सा भेदिका चाभूत् । शरदि हि वृषभा मत्ता नद्यादितटानि विलिखन्ति ॥
स्वराणां कृतिर्विपञ्चीनामिवक्रौनीभिः । कुसुमस्य प्रकाशनं काशाल्या ऋतुमत्येव ।
१ एफ् रिष
५ ए 'नि लि.
३१
२ सी कृतेरा. ३ सी डी स्व जाता. ४ ए काचिवि ६ सी "मस्य.