SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२४ व्याश्रयमहाकाव्ये [मूलराजः] रात्स्यन्ति देवतास्तुभ्यं नाथ किं मह्यमीक्षसे । एवमाराधयन्सांयात्रिकेभ्यः कुलयोषितः ॥ २४ ॥ २४. कुलयोषितः सांयात्रिकेभ्यः पोतवणिग्भ्यः प्रस्तावाहीपान्तरे जिगमिषुभ्य आराधयन् । द्वीपान्तरजिगमिषुपोतवणिजां क्षेमलाभादिविषयं देवं पर्यालोचयन् । सविचारमूचुरित्यर्थों ने त्वकुलीना इव संभावितचिरकालीनविरहरूपमहापराधविधानरुष्टत्वात्तांश्चक्रुशुः । कथमित्याह । हे नाथ वल्लभ रात्स्यन्ति देवतास्तुभ्यं तव द्वीपान्तरे गच्छतः क्षेमलाभादिविषयं दैवं समुद्रदेवताद्या देवता: पर्यालोचयिप्यन्ति तव क्षेमलाभादिविषये देवता: सांनिध्यं करिष्यन्तीत्यर्थः । अतः किं मह्यमीक्षसे मम विरहेसौ पतिव्रता भीरुः कथं भविष्यतीति क्षेमाक्षेमादिविषयं दैवं किमिति निरूपयसि । देवताप्रसादात्त्वयि क्षेमाभ्युदयादिमति त्वदेकशरणाया मम नितरां क्षेमाभ्युदयाद्येवेति मदैवचिन्तया त्वयाँ न खेद्यमिति भाव एवम् । यद्वा कुलयोषितः सांयात्रिकेभ्य आराधयन् । पोतवणिजां गमनविषयमभिप्रायं विचारितवत्यो विचारपूर्वमूचुरित्यर्थः । कथमित्याह । हे देव देववन्ममाराध्य हे नार्थ ता मत्सपन्यस्तुभ्यमात्स्यिन्ति अकुलीनत्वेनासतीत्वादेतेस्मत्पतयः परपुरुषाभिसरणविघ्नाः कदा देशान्तरं यास्यन्तीति तव गमनाभिप्राय पर्यालोचयिष्यन्ति न तु वयं कुलीनत्वात्तस्मात्किं मह्यमीक्षसेस्या अभिप्रायः कीदृश इति विमतिपूर्व किमिति निरूपयसि । अहं त्वद्विरहं क्षणमपि नाभिलषामीत्यर्थः । एवम् सांयात्रिकाणां कुलयोषितां च बहुत्वेपि प्रत्येकं स्वस्वभर्तारं प्रति भणनविवक्षया तुभ्यमित्यादावेकबचनम् ॥ १ पफन्तरं जि . २ सीन कु. ३ बी एफ त्वात्ताश्चु. सीत्वाभ्याभु. डी त्वादिभ्यांश्च . ४ डी न्तरमिच्छ. ५ एफ मादि'. ६ सी डी षये दै. ७ए या निखे. ८डी मात्रारा. ९ए थ म.१.ए रात्सन्ति. ११ए यं लो.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy