________________
२१६ व्याश्रयमहाकाव्ये
[मूलराजः] युवतयानूनाः । शकुलया सण्डाः । गिरिणा काणाः । इत्यादौ हेतौ कृतभवस्या. दिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीया ॥
पुलिनानि सह क्षोमैः सरांसि नभसा समम् ।
ज्योत्तयोमाहामिषन्मेघाः साकं फैलाससानुभिः ॥ ११॥ ११. शरदि हि नदीतटानि प्रावृषेण्याम्बुपूरक्षालितत्वेन निर्मलानि तरङ्गितजलसंशोषेण तरङ्गितवालुकानि च स्युस्तथा शीतलत्वेन शरत्कालोचितत्वादावलनतरङ्गितानि श्वेतानि क्षौमाणि दुकूलानि लोकैः परिधीयन्ते । तथा सरांसि नभश्चातिनिर्मलानि स्युस्तथा ज्यौत्रूयो ज्योत्स्नान्विता निशा अहश्चातिसप्रकाशानि स्युस्तथा मेघा निर्जलत्वेन कैलाससानवश्च वार्षिकॉम्बुपूरचौतत्वेनातिश्वेताः स्युस्ततश्च पुलि. नादीनि क्षौमायैः सह सादृश्यादमिषन् । येप्येकत्र स्थाने समानगुणाः स्युस्ते मिथः स्पर्धन्ते । अमा सह ।।
वन्धकान्यधरैः स्त्रीणां पनानि युगपन्मुखैः । सार्थ हासैश्च कासा(शा)नि स्पर्धा न्यक्षेण चक्रिरे ॥१२॥
१२. स्पष्टः । नवरं युगपत्सह । न्यक्षेण सह सामस्त्येन । शरदि पारक्तानि बन्धूकपुष्पाणि विकसितानि पानि श्वेतानि काशपुष्पाणि च जायन्तेतोधरादिभिः सह स्पर्धा । एतेन चाधरादिसमानर्बन्धूकादिभिः शरत् कामिनीव भातीति व्यथितम् ॥
१५ कानि.
१ वी तजलवा. २ एफ नि क्षौ . ३ सी °नि श्वेक्षौ . ४ एफ काम्बूपू. ५ एफ त्वेन वे'. ६ वी ण मा . ७ ए बी एफ पुष्पाणि.