SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [है. २.२.२१.] द्वितीयः सर्गः । १९९ कीर्तः प्रदीप्यन्ति कुलं प्रदीव्यन्ति । इत्यत्र "उपसर्गादिवः" [१०] इति वा कर्म ॥ उपसर्गादिति किम् । आरमोचतेर्तव्यन्ति । अत्र "न" [१८] इत्यनेन नित्यं कर्मसंज्ञा न ॥ कूटं दीव्यन्ति । चटुना दीव्यन्ति । इत्यत्र "करणं च" [१९] इति दीव्यतेः करणं कर्म करणं च । तेन कर्मत्वे द्वितीया करणत्वे च तृतीया । चेतोधिभयीत । पापमधिष्ठिताः । लोभमध्यासिताः । इत्यत्र "अधेः शी" [२०] इत्यादिना कर्म ॥ समीपमुपोपितः । सदोनूषितवान् । मौलिमधिवसेत् । सभामावसताम् । इत्यत्र "उपान्द" [२१] इत्यादिना कर्म ॥ अथासत्यस्य दोषान्सत्यस्य च गुणानुक्त्वा सत्यमेव वत्तुमुपक्रमते॥ तर्थशास्त्रेभिनिविष्टबुदेवदाम्यमिथ्याभिनिविश्य पार्श्वम् । गोदोहमी त्रुटिमप्युदास्ते य आस्यते द्रामरकं हि तेन ॥१०॥ १००. यस्मात्सत्यासत्ये पूर्वोक्तगुणदोषोपेते तत्तस्माद्धेतोर्यशाने नीतिशास्त्रेभिनिविष्टबुद्धेः क्षुण्णमतेः सतस्ते तव पार्श्वमभिनिविश्याश्रित्यामिथ्या सत्यमहं वदामि । वर्तमानकालनिर्देशोधुनैव वदामीति भणनस्यातिशैघ्यज्ञापनार्थः । शीघ्रवदने हेतुमाह । हि यस्मादीशे स्वामिनि स्वामिकार्यविषय इत्यर्थः ।। गोदोहं यावता कालेन गौर्दुह्यते तावन्तं कालमित्यर्थः । त्रुटिमपि। प्रयत्नेन विमुक्तस्य यवस्य पततोम्बरात् । द्वियवं यावदध्वानं य: कालः स त्रुटिर्मतः ।। इत्यतिसूक्ष्मकालमपि यो भृत्य उदास्त उपेक्षते तेन द्राग् नरकमास्यते स्थीयते स्वामिनो द्रोहस्येवोपेक्षाया अपि महापापहेतुत्वात् ।। १ सी हस्येवो. २ सी डी पापे हे'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy