________________
१९२ व्याश्रयमहाकाव्ये
[ मूलराजः मीशः सन् पापिष्टमेतं जगत्पापे प्रवर्तयन्तं न निग्रहीष्यसि तदेतत्पापेन त्वमपि प्रहीष्यस इत्युक्तम् ॥
एवमसावनिगृहीतः परलोकहित इत्युक्त्वा यथेह लोकेप्यहित. स्तथाह ॥ अप्यन्तकं स्थाम निकारयेत्स निकारयेस्तं यदि नात्मदण्डैः । उपेक्षिताः स्वं ह्यविकारयद्भिःसद्भिः खला: कैन विकारयेयुः।।८९॥
८९. यदि त्वं तं प्राहारिमात्मदण्डैः स्वसैन्यैः कर्तृभिर्न निकारयेनिग्रहेण न तिरस्कारयसि तदा स ग्राहारिः स्थाम बलेनान्तकमपि । आसतामन्ये युष्मादृशा नृपाः । सर्वत्रास्वलितबलं यममपि निकारयेद्वाहरिपुः स्वस्थामान्तकं निकुर्वत्प्रयुजीत । स्वस्थाना यममपि पराभवेदित्यर्थः । संभावने सप्तमी । एतेनास्मिन्ननिगृहीते महारोगवद्वर्धमानेसाध्यतां गते त्वमपि विनयसीत्युक्तम् । एतदेवार्थान्तरन्यासेन (द)ढयति। हि यस्माद्धेतो: स्वमात्मानमविकारयद्भिः। अविकुर्वाणं स्वं प्रयुञ्जानैरविकृतीभवद्भिरित्यर्थः । सद्भिपेक्षिताः सन्तः खला दुर्जना: कैः कर्तृभिर्न विकारयेयुः कान्विकुर्वाणान्न प्रयुजीरन् । किं तु सर्वानपि स्वपदप्रच्यावनादिना विकृतान्कुर्युरित्यर्थः ।।
विहारयेजनतां कुवर्म । विहारयेन्मृत्युपथं तेन । इत्यत्र गत्यर्थस्वारप्राप्तौ । स्वमविकारयदिः । कैर्न विकारयेयुः । इत्यत्राकर्मकत्वात्प्राप्तौ । अहारयंत दण्डम् । हारयेद्धर्ममधेन । भन्तकं स्थाम निकारयेत् । दण्डैस्तं निकारयः । .. त्यन्त्र चाप्राप्तौ "हकोनं वा" [4] इत्यणिकता णौ कर्म वा ॥
१बी स्थाना ब. २ सी डी नक्ष्यसी'. ३ ए °णं स्वयं प्र. सी एफ °णं स्वप्र. ४ थी कृतैर्भव. ५ एफ 'रयेयुरित्य. ६ सी डी तो। आहा. ७ एफ येरित्य'.