________________
१५६ द्याश्रयमहाकाव्ये
[मूलराजः] जगन्म इत्युक्तिपरैः सपर्णध्वद्यष्टिभी रश्मितानडुद्भिः। ग्राम्यैरविद्वद्भिरुदीक्ष्यतेसौ ग्रूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ॥४१॥
४१. प्राम्यैरसाविन्दुर्दधिपिण्डबुद्ध्या स्थूलदधिवराटकाशङ्कयोदीक्ष्यत ऊर्ध्वमालोक्यते । कीडक्सन् । द्यौर्योमैव पृथुत्वात् श्यामत्वाचोखा स्थाली तस्याः सकाशात्वंसतेधः पतति घूखास्रत् । कीदृशैः सद्भिः । जङ्गन्म इत्युक्तिपरैः कुटिलं गच्छाम इत्युच्चारयदिः । ग्राम्या हि प्रायेण प्रातः पत्रघासाद्यानयनायान्योन्यमाकारयन्तो बहिर्बजन्ति । तथा पर्णानि ध्वंसते पर्णध्वद्यायष्टिीङ्गुलँदादिः सह तया बदरीपत्रादिपातनार्थ वर्तन्ते ये तैः । तथा पत्रघासादिभारारोपार्थ रश्मौ रज्जौ धृता अवष्टब्धा अनड्वाहो वृषा यैस्तैः । तथाविद्वद्भिर्माम्यत्वान्मुग्धैः । प्रामेषु दधिबाहुल्येन ग्राम्याणां स्थाल्यधःपतद्धनदधिपिण्डस्य सुपरिचितत्वादस्तकाले व्योम्रोधः पत्तीन्दौ तथात्वेनाध्यवसायः ॥ उदीयिवदैत्यरणावरविक्सहस्रदृग्दिक्स्पृगुदकरसक् । अजीवनम्भिर्मुनिभिर्दधृम्भिरुष्णिकस्तुतो वोस्त्वर्धनद्कृतेः॥४२॥
४२. हे राजन् वो युष्माकमध ट्कृतेघस्य पापस्य या नट् नाशस्तस्या यत्कृत् करणं वस्यायर्कोस्तु । कीदृक् । उदीयिवांसस्तत्कालोदिता ये दैत्या मन्देहाख्याः षष्टिसहस्राणि तेषां यो रणः स एवाध्वरो यागस्तत्र ऋत्विक् । यत्विक पशुमेधयागे पशून् हन्ति तथा दैत्यान रणे ननित्यर्थः । तथा सहस्रदृश इन्द्रस्य दिशं पूर्वी स्पृशति यः सः ।
१५ सी ध्वयष्टि'. २ ए धृद्भिरु. ३ सी डी नट्टते.
१ सीडी लदीर्घा स'. २ एफ रोपणार्थ. ३ बी वृषभा यै . ४ सी दत्तका. टीदत्रका'.५ सी वोवयु. ६ सी डी नट्टते'. ७ डी गेहन्नि.