________________
[१० २.१.३२.] द्वितीयः सर्गः।
१४५ कुण्डं खनेदं परिलिम्प चैनदिदं फलं घेपथ होमयैनम् ।। इदं सदेनेन यजस्व दनानयोः श्रुतं सत्कुरु चैनयोस्तत् २८ व्रजेमकस्मायय देहि चास्मायेतेप्रयोथैषु नतिं कुरुष्व । अन्योन्यमित्यादिशतां द्विजानाममूर्गिरो ब्रह्मपुरीष्विदानीम्२९
२७-२९. इदानी प्रभाते ब्रह्मपुरीषु द्विजानां यायजूकानाममूः प्र. त्यक्षा गिर आज्ञावाण्यो वर्तन्ते । यतोन्योन्यमादिशताम । कथमित्याह । हे द्विजैतन् प्रत्यक्षं पात्रं यज्ञभाजनं नय जलस्थानादि प्रापय । तत एनदेव पात्रं शुचय जलक्षालनादिना पवित्रीकुरु । ती हे द्विजैतेन पात्रेणार्घ पूजोपकरणं पुष्पफलादि भज गृहाणेत्यर्थः । ततोनेनैव पात्रेणेश्वरेन्द्रादिभ्यो बलिमुपहारं देहि । तथैते जुहूँसुचौ । जुहूरुत्तरामुक् । ततो गोबलीवर्दन्यायेन उच्शब्देनाधरा झुगुच्यते । द्वन्द्वे जुहूसुचावुत्तराधरखुचौ । तावदिति प्रक्रमे । आनय । अथानन्तरमेनयोरुत्तराधरनुचोराशु शीघ्रं होमाय सर्पिः प्रक्षिपे । तथेदं कुण्डं खन पुरोवतिनी भूमि यागान्याधानाथ खननेन कुण्डाकारां कुर्वित्यर्थः । तत एतदेव कुण्डं परिलिम्प च समन्तालिप॑स्व च । तथेदं फलमानादि घेहि पाणौ घर । अथानन्तरमेनमेव फलं होमय जुहुधि । तथेदं दधि सद् वर्तते । ततोनेनैव दना यजस्व यागं कुरु । तयानयोर्यायजूकयोः श्रुतं वेदादिशामसारं वर्वते । श्रुतवन्तावेवावित्यर्थः । तत्तस्माद्धे
१ एफ चैतदि. २ एफ २९ ॥ त्रिमिर्विशेषकम् ॥
१ सी डी २९ ॥ प्र. २ सी ना ५. ही नात्पवि. ३ एफ या दि. ४ सीटी हरु. ५. ए सी पः ।। ६ एफ म्प च।. ७ एफ °मेतदेव. ८ एफ तथाने . ९ वी पफ शास्त्रं सा.
१९