________________
१२०
व्याश्रयमहाकाव्ये
[ मूलराज: ]
१६ गन्ध १७ स्पर्श १८ शब्द १९ संज्ञानि पश्व तनुमात्राणि । इति पोडशको गणः । तनुमात्रोद्भूतानि तेजो २० जल २१ पृथ्वी २२ नभो२३ वायु २४ संज्ञानि पञ्चभूतानि । अकर्ता विगुणो भोक्ता चात्मा २५ चेति । सांख्यमते पञ्चविंशतितत्त्वव्यतिरिक्तमन्येजगन्नास्ति । ततश्च सकलजगत्स्वरूपज्ञस्येत्यर्थः । एवंविधस्य च कीर्तिः सर्वत्रापि प्रसरति || महाँ नगाः । अष्टौ भावान् । इत्यत्र “भ्रष्ट और्जस्शसोः” [ ५३ ] इत्यौः ॥
कृतात्वस्य निर्देशादिह न स्यात् । अष्ट दिशः । अष्ट भावान् । अतत्संबन्धिनोरपीच्छन्त्येके । अत्यष्टौ क्ष्मांशाः । अत्यष्टौ भावान् ॥
त्रातुं षडष्ट भुवनान्युचिते ततीह स्थामान्यधुर्यति हराः किल पश्च षट् च ।
तूणे भृशं जयकृते दधतोस्य चास्तां
मन्ये हयद्विपबले परिवारमात्रम् ॥ १९७ ॥
१९७. किलेति संभावनायाम् । पश्च षट् च हरा एकादश रुद्रा यति यावन्ति स्थामान्यभवंस्तति तावन्ति स्थामानि बलानीह राशि न्यधुः । स्वकीयानि सर्वाण्यपि बलान्यस्मिंस्थापितवन्त इत्यर्थः । यतः षडष्ट भुवनानि भूर्लोक १ र्भुवर्लोक २ स्वर्लोकं ३ महर्लोक ४ जनलोक५ तपोलोक ६ सत्यलोका ७ ख्यानि सप्त सप्तभिर्वायुस्कन्धैर्मिलितानि चतुर्दश जगन्ति त्रातुं रक्षितुमुचिते । रक्षितुं क्षमे हि सर्वोपि स्ववस्तु निधाति । अत एव तथाहं मन्येस्य राज्ञो जयकृते विजयार्थं तूणे तूणावुपलक्षणत्वाद्धनुश्च । भृशमत्यर्थे दधतः सतो हयद्विपबले अश्वगज
१ सी षडा.
१ बी एफ् 'न्यज्जग. २ एफ् टौ नागाः ३ एफ् औरित्यादिना औ: ४ बी च ९. ५ एन्ति न ं. ६ ए बी मुवोलोक. एफ् भुविलोक. ७ डी कज ८ बी क ४ ज्ञान ं. ९ डी °क ५ पाताललो. १० बी डी एफू तूणीरौ उप. सी. तूणीर उप