________________
[है. १.४.४७.] प्रथमः सर्गः ।
११७ इत्यविषये "सर्वांश" [७. ३. ११७ ] इत्यादिनाट् । अह्लादेशश्च । ततो "द्विगोरनपत्ये" [ ६. १. २४ ] इत्यादिनाणो लुपि चतुरहस्तस्मिंश्चतुरह्नि । एवं व्यहे व्यहनि वा स्तोककालीनेपीत्यर्थः । आजे: प्रयोगः पुंस्यपि दृश्यते । तथा च माघे ।
वाहनाजनि मानासे साराजावनमा ततः । [१९.३३] इति ॥ असायापि सायाहीवैषोस्वाप्सीन जातु चित् ।
अदीप्यत प्रतापेन सायाहनि हुताशवत् ॥ १९३ ॥ १९३. यथा सायाहि संध्याकाले निषिद्धत्वान्न कोपि स्वपिति तथैष राजासायाह्नप्यसंध्यायामपि स्वापाहे कालेपीत्यर्थः । जातु चित्कदाचिदपि नास्वाप्सीत् । सदापि प्रजापालने जागरूकोभूदित्यर्थः । तां यथा सायाहनि हुताशोग्निः प्रतापेन दीप्त्या कृत्वा दीप्यते तथैष प्रतापेन तेजसा कृत्वादीप्यत ॥
पैत्रे व्यहि दैवतेपि व्यह्ने ब्राह्मे व्यहन्यपि ।
गुणानां वर्ण्यमानानां कोप्यन्तं नास्य लब्धवान् ॥१९४॥ १९४. सुगमः । किं तु पितॄणामयं पैत्रस्तस्मिन् । विगतमहो व्यहस्तस्मिन् व्यहि गतदिने । दैवते दैवसंबन्धिनि । ब्रोझे विधातृसंबन्धिनि । पैत्रव्यहादि प्रमाणं चेदम् ।
१ एफ त् ॥ १९३ ॥ सं. २ बी पैन्ये व्य.
१ सी डी थापि मा. २ एफ °सेसरा . ३ ए बी डी एफ °मानतः. ४ एफ स्वापेहें. ५ एफ सीदित्यर्थः । स. ६५ °था सा. ७ सी एफ 'प्यते ॥,पै. ८ ए ते देव. ९डी बाहये वि.