________________
१०८ ब्याश्रयमहाकाव्ये
[मूलराजः] धेन्वै साधये । भीर्वाः सजिष्णोः । कामधेन्वाः असिधेनोः । अतन्वां तनौ । इत्यत्र “त्रियां डिन्ताम्" [२८] इत्यादिना तत्संबन्धिनामन्यसंबन्धिनां वा डिन्ता वा दैदासदासदामः ॥ अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति । तन्मते लम्बश्रुतेरस्यस्येव स्यात् न तु लम्बश्रुत्या इति ॥ अन्यस्तु पुरुषस्यैव समासाथत्व इच्छति न स्त्रियाः । तन्मते निग्धदृष्टया अस्पेत्यत्रैव स्यात् । न तु निग्ध. दृष्टेः खिया इति ॥ इदुत इत्येव । दिवः ॥
लक्ष्य । पृथ्व्याः । पृथ्व्याः। पृथ्व्याम् । ववै । परवध्वाः । वध्वाः । वध्वाम् । सुलक्ष्म्यै। सुवध्वं कसै चित् । इत्यत्र "स्त्रीदूतः" [२९] इति तत्संबन्धिनामन्यसंबन्धिनां वा डिन्तां दैदास्दासुदामः ॥ स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं निन्यस्त्रीविषयाथम् । तेनेह न भवति । ग्रामण्ये खलप्वे परनियै ॥ ईदृत इति किम् । दिवः । दिवि ॥
भुवि श्रियै पिये वासो हियाः स्थानं भियोपदम् ।
अ॒भुवा आपतत्त्रीणां ललासैष ध्रुवो भुवाम् ॥ १७८॥ १७८. दिवोभूर्युभूस्तस्या युभुवाः स्वर्गभूमेः सकाशाद् भुवि मत्यलोक आपतत्त्रीणामेतदद्भुतरूपादिगुणश्रीदिदृक्षयागच्छदेवाङ्गनानां ध्रुव एकस्या भ्रवः सकाशाद् ध्रुवामपरस्त्रां भ्रव्येष राजा ललास चिक्रीड । अत्र भ्रूशब्देन तन्निकटं चक्षुरुपलक्ष्यते । एकस्माञ्चक्षुषोपरमिश्चक्षुषि ललास । सर्वाभिरपि देवीभिरहमहमिकयासौ दृष्ट इत्यर्थः । यत: श्रियै रूपादिलक्ष्म्यै धिये बुद्धये च वासः । तादणे चतुर्थीयम् । श्रियो बुद्धेश्च गृहमित्यर्थः । तथा हिया लज्जायाः स्थानम् । एतेन कुलीनत्वोक्तिः । तथा भियोपदमस्थानम् । एतेन शूरत्वोक्तिः ॥
१ एफ तां वा. २ एफ तां है'. ३ एफ् अस्यैत्य'. ४ एफ् वै व. ५ ए एफ य इदुत. ६ पफ दिवि ।।. ७ सी भूस्त. ८ एफ कटचारूपं ल. ९ सी डी रह".