________________
- व्याश्रयमहाकाव्ये
(मूलराजः]
प्रभुणा सहिताया अपि दैत्याजिभीर्वा दानवरणाद्भीरोः । एतेन सर्वोत्कृष्टैः शौर्यादिगुणैर्बुद्ध्या च शक्राजय्या अपि दैत्या अनेन जिता इत्युक्तम् ।।
असिधेनोः कामधेन्वा जयाप्त्यां समिती ग्रहात् ।
नृपपतया महाबुद्धेरपि क्षोममसौ व्यधात् ॥ १७४ ॥ १७४. असौ राजा समिती रणेसिधेनोः खड्गयष्टेहात् महत्यतिशयिता बुद्धिः संध्यादीनां यथौचित्येन व्यापारणगोचरा मतिर्यस्यास्तस्या अपि नृपपतयाः क्षोभं संत्रासं व्यधात् । ननु यद्यमुनासिधेनुहोता तत्किं नृपपतिर्महाबुद्धिरपि क्षुब्धेत्याह । यतो जयाप्त्यां विजयप्रापणे कामधेन्वा अवश्यमेव विजयदाच्या इत्यर्थः । अथ च यस्य जयाप्त्यां जयलाभविषये कामधेन्वा ग्रहोनुग्रहः प्रसादः स्यात्स तस्मात्प्रसादात्समिती सभायां महाबुद्धेरपि महाविदुषोपि क्षोभं करोति ॥
लम्बश्रुतेः स्निग्यदृष्ट्या अस्यातन्वां तनौ मुराः।
जाताश्चर्या दिवः पृथ्व्यां पृथ्व्या दिवि च ते ययुः १७५ १७५. ते रूपवत्त्वेन सर्वत्र प्रसिद्धाः सुरा दिवः स्वर्गात्पृथ्व्यां ययुः । पृथ्व्याश्च दिवि ययुः । यतो लम्बश्रुतेः स्कन्धविश्रान्तकर्णस्य स्निग्धदृष्ट्या अरूक्षेक्षणस्योपलक्षणत्वात्सुरूपसश्रीकसर्वाङ्गावयवस्यास्य राज्ञोतन्वां विस्तीर्णायां समचतुरस्रसंस्थानायामित्यर्थः । तनौ देह विषये जाताश्चर्या अत्यद्भुतरूपश्रीकत्वादेतन्मूर्तिदर्शनाय देवा अपि गतागतं चक्रुरित्यर्थः ॥
१एफ जय्याप्तां.
१ पफ तौ संग्रामेसि. २ एफ ग्रहणात्. ३ सी डी संशयं. यदामु. ५ डी थवा य. ६ सी र्गापवात्पृ. ७ ए तुसं.
४ एफ