________________
ध्याश्रयमहाकाव्ये
[ मूलराजः ] श्रिया पूर्वाय । ओजःपूर्वाय । अह्वावराय । मासावराय । इत्यत्र "तृतीया. न्तात्" [१३] इत्यादिना सर्वादिकार्य न ॥
कृष्णायास्मै द्वितीयस्मै द्वितीयायासिना नृपाः । द्वितीयस्मात्तृतीयाच देशादेत्य नमो व्यधुः ॥ १५७ ॥ १५७. गूर्जरत्रादेशापेक्षया द्वितीयस्मात्तृतीयाच्च देशादुपलक्षणत्वात्सर्वदेशभ्य इत्यर्थः । एत्यागत्य नृपा अस्मै राज्ञे नमः प्रणामं व्यधुः । यतो द्वितीयस्मै कृष्णाय । ईदृशायापि कुत इत्याह । यतोसिना द्वितीयाय महाबलत्वेन सैन्यादिसहायनिरपेक्षायेत्यर्थः ॥
द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः ।
जगत्यस्मिन्द्वितीयस्मिंस्तृतीये चैष विश्रुतः ॥ १५८ ॥ १५८. एष राजास्मिन् जगति पृथिव्यां द्वितीयस्मिञ् जगति पाताले तृतीये च जगति स्वर्गे च विश्रुतो विख्यातः । यतो द्वितीयस्यास्तृतीयायाः स्वकीर्त्यपेक्षयान्यस्या अन्यतरस्याश्चोपलक्षणत्वात्सर्वस्या इत्यर्थः। नृपकीर्तेरन्यराजयशस: कर्मणोमर्षणोसोढा । परिभावुक इत्यर्थः । अतश्वायमेव सर्वत्र प्रसिद्ध इति भावः ॥
तेजसा मूर्यजातीये सर्वेषां प्रलयो द्विषाम् ।
कान्त्या द्वितीयके चेन्दो हर्कस्मिन् मुहृदामभूत् ॥१५९॥ १५९. तेजसा प्रतापेन कृत्वा सूर्यः प्रकारोस्य तस्मिन्सूर्यजातीये सूर्यवत्प्रचण्डेस्मिन् राज्ञि सर्वेषां द्विषां प्रलयः क्षयोभूत् । एतत्प्रता१.सी तीयस्माञ्च. १ सी डी 'रदे. एफ रिपात्रीदे'. २ एफ 'तीयस्माच्च. ३ बी सी डी एफ पृथ्न्यां दि. ४ एफ में वि. ५ बी एफ र्यप्र.