________________
८८
व्याश्रयमहाकाव्ये
[ मूलराज: ]
विश्वस्मादेत्यशेतासौ विश्वस्मायुपकारकः ।
किं सर्वस्मै पर सर्वस्मै च यः कामदोभवत् ॥ १३६ ॥
१३६. यो विश्वस्मै हीनायोत्तमाय चोपकारको रक्षादानादिनोपकर्ता सन किंसर्वस्मै कुत्सितसर्वस्मै हीन लोकाय परसर्वस्मै च प्रकृष्ट्रसर्वस्मायुत्तमलोकाय च कामदो मनोरथपूरको भूदसौ स मूलराजी विश्वस्मात्सर्वलोकादत्यशेतोत्कृष्टोभूत् ॥
तमस्तोभिभवः कालेप्यसर्वस्मिन्महोदयः ।
हीनतास्मादुभौ हेतु उभयस्मिन् रवौ विधौ ।। १३७ ॥
I
१३७. उभौ हेतू “सर्वादेः सर्वाः” [२.२.११९] इति प्रथमाया द्वितीयाया वा द्विवचनम् । द्वाभ्यां कारणाभ्यामस्मान्नृपात्सकाशादुभयस्मिन् द्वितये हीनता न्यूनत्वमासीत् । कस्मिन्नुभयस्मिन्नित्याह । वाँ सूर्ये विधौ चन्द्रे च । कौ हेतू इत्याह । तमस्तो राहोः सकाशादभिभवो ग्रहणलक्षणंपराभर्वैः । अपिः समुच्चये । तथासर्वस्मिन्काले महोदयो न सर्वस्मिन्काले महान् जगत्प्रकाशक उदयः स्यात् । रवेर्दिन एव चन्द्रस्य च रात्रावेव महोदयात् । अस्य च राज्ञस्तमस्तोज्ञानान्नाभिभवो राज्यलक्ष्मीप्रतापादीनां सदा वृद्ध्या सदा महोदयश्चेति ॥
।
अन्यस्मै भास्करायान्यतरस्मै विष्णुशक्रयोः । रुद्राणामन्यतमस्मै नमोस्मै चक्रिरे नृपाः ।। १३८ ॥ १३८. नृपा अस्मै मूलराजाय नमो नमस्कारं चक्रिरे यतोन्यस्मै
१ डी 'दतिशे . २ एफूं 'स्तोविभ
°UT:
१ एफू र्वस्मै चोत. २ सी 'दभिशे. डी 'दतिशे . ३ बी डी एफ प० ४ सी डी वः स . ५ एफ नान्न परिभवो राजल..