________________
3
व्याश्रयमहाकाव्ये
[ मूलराजः] शान्तौ लयश्चित्तैकाम्यं येषां तैस्तल्लयैनरैः स्मर्यते प्रणिधीयते । यतः कीहक् । षड् नाम । नामेति प्रसिद्धिद्योतको निपातः । षडिति संख्यया प्रसिद्धान कामादीन काम १ क्रोधरमान ३मद४लोभ५हर्षा६नान्तररिपूल्लीलया द्विषन्पराभवन् ।
नगेट्नुगरवलक्ष्मीजुट्थूत्कृतद्विड्डुलिध्वजैः । नागेड्नु । विभ्राट्सालः। इत्यत्र "पदान्तात् " [६३ ] इत्यादिना तवर्गसयोष्टवर्गपी न ॥ टवर्गादिति किम् । चतुष्टयम् ॥ अनाम्नगरीनर्वतेरिति किम् । षण्णाम् । षण्णगरीः । षण्णवति ॥ नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव । पद्नाम ॥
तीर्थकृत्षोडशः । द्विषन्धह । इत्यत्र "पि तवर्गस्य" [ ६४ ] इति तवर्गस्य टवर्गो न स्यात् ॥
तल्लयैः । कार्मोदीलीलया । इत्यत्र “लि लौ" [६५] इति स्थान्यासचावनुनासिकाननुनासिकौ लौ ॥
तृतीयः पादः॥ धर्माय चार्यकामाभ्यां चात्र लोका अभीप्सवः ।
मुक्तये चातिनरसैर्योगिभिः प्रणिधीयते ।। १३० ॥ १३०. अत्रत्यलोका धर्ममर्थ कामं च स्वस्वकाले साधयन्तीति पूर्वार्धस्य भावार्थः । तथात्र योगो यमादिरष्टविधोस्त्येषां तैर्योगिभिरतिजरसै: सततयोगाभ्यासेन जरामतिक्रान्तैः सद्भिर्मुक्तये मोक्षाय प्रणिधीयते परमात्मनो ध्यानं क्रियते ।।
१५ °ये वाति.
१ बी सी डी सिद्धद्यो'. एफ सिद्धोयो : २ डी वतिरि. एफ वतीति. ३ ए बी सी री।. ४ एफ माँठी. ५ एफ. तिस्थित्यास. . ६ एफ मिः समाधिस्थैर: ७ सी डी ततं यो.