________________
ધર્મબિંદુપ્રકરણ
બીજો અધ્યાય
उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत् तत्र कार्यम्, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात् ४। 'अनिह्नवः' इति गृहीतश्रुतेनानिह्नवः कार्यः, यद् यत्सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति ५ । तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा- 'धम्मो मंगलमुक्किटुं' (दशवै. १/१) इति वक्तव्ये 'पुन्नो कल्लाणमुक्कोसं' इत्याह, अर्थभेदस्तु यथा- 'आवंती केयावंती लोगंसि विप्परामसंति' (आचा. १/५/१४७) इत्यत्राऽऽचारसूत्रे ‘यावन्तः केचन लोके अस्मिन् पाषण्डिलोके विपरामृशन्ति' इत्यर्थाभिधाने 'आवन्तीजनपदे केया रज्जूः वन्ता लोकः परामृशति कूपे' इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दै, यथा- 'धर्मो मङ्गलमुत्कृष्ट: अहिंसा पर्वतमस्तके' इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः, तद्भेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः, तदभावे च निरर्थिका दीक्षेति ।
दर्शनाचारोऽपि निःशङ्कित - निःकाङ्क्षित - निर्विचिकित्सा - ऽमूढदृष्टिउपबृंहा-स्थिरीकरण-वात्सल्य - तीर्थप्रभावनाभेदादष्टधैव, तत्र निःशङ्कित इति शङ्कनं शङ्कितम्, निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः, देश - सर्वशङ्कारहित इत्यर्थः, तत्र देशे शङ्का 'समाने जीवत्वे कथमेको भव्यः, अपरस्तु अभव्यः' इति शङ्कते, सर्वशङ्का तु 'प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यति' इति, न पुनरालोचयति यथा - भावा हेतुग्राहया अहेतुग्रायाश्च, तत्र हेतुग्रााया जीवास्तित्वादयः, अहेतुग्राया भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तं च -
बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाङ्क्षिणाम्।
अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ।।६१ ।। ( ) दृष्टेष्टाविरु द्धत्वाच्च नायं परिकल्पनागोचरः, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते, अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्या १। तथा निःकाक्षितो देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एक दर्शनं काङ्क्षते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति २। विचिकित्सा मतिविभ्रमः, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेव जिनदर्शनम्, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति वा न वा, कृषीवलादिक्रियासूभयथाऽप्युपलब्धेः' इति कुविकल्परहितः, न हयविकल उपाय
७