________________
ધર્મબિંદુપ્રકરણ
પહેલો અધ્યાય
इतरोऽपि प्रचुरस्वपितृविभववशोत्पन्नाहङ्कारः तत्पितुर्विभवविकलत्वेन दुर्बलपृष्ठोपष्टम्भां कन्यामवजानाति। तथा गोत्रजैर्वैवाटे स्वगोत्राचरितज्येष्ठताव्यवहारविलोपः स्यात्, तथाहि- ज्येष्ठोऽपि वयोविभवादिभिः कन्यापिता कनिष्ठस्यापि जामातृकपितुः नीचैर्वृत्तिर्भवति, न च गोत्रजानां रूढं ज्येष्ठकनिष्ठव्यवहारम् अतिलघ्य अन्यो वैवाह्यव्यवहारो गुणं लभते, अपि तु तद्व्यवहारस्य प्रवृत्तौ गोत्रजेषु पूर्वप्रवृत्तविनयभङ्गात् महान् अनर्थ एव संपद्यते। तथा बहुविरुद्धैः सह संबन्धघटनायां स्वयमनपराद्धानामपि तत्संबन्धद्वारा आयातस्य महतो विरोधस्य भाजनभवनेन इहलोक-परलोकार्थयोः क्षतिः प्रसजति, जनानुरागप्रभवत्वात् संपत्तीनामिति पर्यालोच्य उक्तं 'समानकुलशीलादिभिः अगोत्रजैः वैवात्यमन्यत्र बहुविरु द्धेभ्यः' इति।
___ अत्र च लौकिकनीतिशास्त्रमिदम्- द्वादशवर्षा स्त्री, षोडशवर्षः पुमान्, तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पादनपरिपालनारूपश्चतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः, स च ब्राह्मादिभेदादष्टधा।
___ तथाहि- ब्राह्मो विवाहो यत्र वरायालङ्कृत्य कन्या प्रदीयते १, त्वं भवास्य महाभागस्य सधर्मचारिणीति विनियोगेन विभवस्य कन्याप्रदानात् प्राजापत्यः २, गोमिथुनपुरस्सरकन्याप्रदानादार्षः ३, स दैवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा ४, एते धा विवाहाश्चत्वारोऽपि गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरङ्गकारणत्वान्मातुः पितुर्बन्धूनां च प्रामाण्यात्। परस्परानुरागेण मिथः समवायात् गान्धर्वः ५, पणबन्धेन कन्याप्रदानमासुरः ६, प्रसह्य कन्याऽऽदानात् राक्षसः ७, सुप्तप्रमत्तकन्याऽऽदानात् पैशाचः ८, एते चत्वारोऽधा अपि नाधाः , यद्यस्ति वधूवरयोरनपवादं परस्पररुचितत्वमिति। शुद्धकलत्रलाभफलो विवाहः। तत्फलं च सुजातसुतसन्ततिः, अनुपहता चित्तनिर्वृतिः, गृहकृत्य सुविहितत्वम् , आभिजात्याचारविशुद्धत्वम्, देवातिथिबान्धवसत्कारानवद्यत्वं चेति । ___ कुलवधूरक्षणोपायाश्चैते- गृहकर्मविनियोगः, परिमितोऽर्थसंयोगः, अस्वातन्त्र्यम्, सदा च मातृतुल्यस्त्रीलोकावरोधनमिति ।
रजकशिला-कुर्कुरकर्परसमा हि वेश्याः, कस्तासु कुलीनो रज्येत?, यतो दाने दौर्भाग्यम्, सत्कृतौ परोपभोग्यत्वम्, आसक्तौ परिभवो मरणं वा, महोपकारेऽप्यनात्मीयत्वम्, बहुकालसंबन्धेऽपि त्यक्तानां तदैव पुरुषान्तरगमनमिति वेश्यानां कुलाऽऽगतो धर्म इति ।।१२।।