________________
ધર્મબિંદુપ્રકરણ
આઠમો અધ્યાય
नवमगुणस्थानकमध्यारोहति, तत्र च तथैव प्रतिक्षणं विशुद्ध्यमानः कियत्स्वपि संख्यातेषु भागेषु गतेष्वष्टौ कषायान् अप्रत्याख्यानावरण-प्रत्याख्यानावरणसंज्ञितान् क्रोधादीनेव क्षपयितुमारभते, क्षीयमाणेषु च तेष्वेताः षोडश प्रकृतीरध्यवसायविशेषात् निद्रानिद्रा१ प्रचलाप्रचला २ स्त्यानगृद्धि ३ नरकगति ४ नरकानुपूर्वी५ तिर्यग्गति६ तिर्यगानुपूर्वी७ एकेन्द्रिय८ द्वीन्द्रिय९ त्रीन्द्रिय१० चतुरिन्द्रियजातिनाम ११ आतपनाम१२ उद्योतनाम १३ स्थावरनाम १४ साधारणनाम १५ सूक्ष्मनाम १६ लक्षणाः क्षपयति, ततोऽष्टकषायावशेषक्षये यदि पुरुषः प्रतिपत्ता ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुनः पुरुषवेदं क्षपयति, यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितरवेदद्वयं च यथाजघन्यप्रथमतया क्षपयति, ततः क्रमेण क्रोधादीन् संज्वलनान् त्रीन् बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मम्, सर्वथा विनिवृत्तसकलमोहविकारां क्षीणमोहगुणस्थानावस्थां संश्रयते, तत्र च समुद्रप्रतरण श्रान्तपुरु षवत् संग्रामाङ्गण निर्गतपुरु षवद्वा मोहनिग्रहनिश्चलानिबद्धाध्यवसायतया परिश्रान्तः सन्नन्तर्मुहूर्त विश्रम्य तद्गुणस्थानकद्विचरमसमये निद्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणावशिष्टं प्रकृतिचतुष्कं च युगपदेव क्षपयति। बद्धायुः पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे क्षपकश्रेणिं समर्थयत इति। यश्चात्रापूर्वकरणोपन्यासानन्तरं क्षपकश्रेणेरू पन्यासः स सैद्धान्तिकपक्षापेक्षया, यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव क्षयं करोतीति तन्मतम्, न तु यथा कार्मग्रन्थिकाभिप्रायेण अविरतसम्यग्दृष्ट्याद्यन्यतरगुणस्थानकचतुष्टयस्थ इति।
ततो मोहसागरोत्तारः, मोहो मिथ्यात्वमोहादिः स एव सागरः स्वयंभूरमणादिपारावारः मोहसागरः, तस्मादुत्तारः परपारप्राप्तिः, ततः केवलाभिव्यक्तिः, केवलस्य केवलज्ञानकेवलदर्शनलक्षणस्य जीवगुणस्य ज्ञानावरणादिघातिकर्मोपरतावभिव्यक्तिः आविर्भावः, ततः परमसुखलाभः, परमस्य प्रकृष्टस्य देवादिसुखातिशायिनः सुखस्य लाभः प्राप्तिः, उक्तं
च -
यच्च कामसुखं लोके यच्च दिव्यं महासुखम्। वीतरागसुखस्येदमनन्तांशो न वर्त्तते ।।२२२।। ( ) इति ।।५।।
ત્યાર બાદ સમય જતાં અપૂર્વકરણ, ક્ષપકશ્રેણિ, મોહસાગરથી નિસ્તાર, કેવલની અભિવ્યક્તિ અને પરમસુખનો લાભ થાય છે.
અપૂર્વકરણ :- જ્યાં અપૂર્વ કરવામાં આવે તે અપૂર્વકરણ. અપૂર્વ એટલે
'
४