________________
ધર્મબિંદુપ્રકરણ
तथा
विशुद्ध्यमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयर्द्धिप्राप्तिः || ४ ||४८५ ॥ इति
विशुद्ध्यमानस्य संक्लिश्यमानविलक्षणतया अप्रतिपातिनः कदाचिदप्यभ्रंशभाजः चरणस्य चारित्रस्य अवाप्तिः लाभः, ततश्च तेन विशुद्ध्यमानाप्रतिपातिना चरणेन सात्म्यं समानात्मंता तत्सात्म्यम्, तेन सहैकीभाव इत्यर्थः तेन भावो भवनं परिणतिरिति, भव्यप्रमोदहेतुता भव्यजनसंतोषकारित्वं ध्यानसुखयोगः ध्यानसुखस्य शेषसुखातिशायिनः चित्तनिरोधलक्षस्य योगः, अतिशयर्द्धिप्राप्तिः अतिशयर्द्धेः आमर्षौषध्यादिरूपायाः प्राप्तिः
॥४॥
ततश्च कालेन
આઠમો અધ્યાય
"
તથા અવસરે ઉત્તરોત્તર વિશુદ્ધ થતા અને અપ્રતિપાતી (= ક્યારે પણ ન પડે તેવા) ચારિત્રની પ્રાપ્તિ થાય, તેવા ચારિત્રની સાથે સાત્મ્યભાવ (= એકીભાવ) થાય. તે જીવ ભવ્યજીવોના હર્ષનું કારણ બને, અર્થાત્ તે જીવ ભવ્યજીવોને સંતોષ પમાડે. બીજાં સુખોથી ચઢિયાતા ચિત્તનિરોધરૂપ ધ્યાનસુખનો યોગ થાય. આમષષધિ આદિ ઉત્કૃષ્ટ ઋદ્ધિની પ્રાપ્તિ થાય. (૪)
૩૬૩
अपूर्वकरणम्, क्षपक श्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभः || ५ || ४८६ ॥ इति ।
अपूर्वाणां स्थितिघात - रसघात - गुणश्रेणि-गुणसंक्रमा-ऽपूर्वस्थितिबन्धलक्षणानां पञ्चानामर्थानां प्राच्यगुणस्थानेष्वप्राप्तानां करणं यत्र तदपूर्वकरणम् अष्टमगुणस्थानकम्, ततश्च क्षपकस्य घातिकर्मप्रकृत्तिक्षयकारिणो यतेः श्रेणिः मोहनीयादिप्रकृतिक्षयक्रमरूपा संपद्यते, क्षपक श्रेणिक्रमश्चायम् - इह परिपक्वसम्यग्दर्शनादिगुणो जीवश्चरमदेहवर्त्ती अविरत-देशविरत-प्रमत्ताप्रमत्त-संयतान्यतरगुणस्थानकस्थः प्रवृद्धतीव्रशुद्धध्यानाधीनमानसः क्षपकश्रेणिमारुरुक्षुरपूर्वगुणस्थानकमवाप्य प्रथमतः चतुरोऽनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयितुमारभते, ततः सावशेषेष्वेतेषु मिथ्यात्वं क्षपयितुमुपक्रमते, ततस्तदवशेषे मिथ्यात्वे च क्षीणे सम्यग्मिथ्यात्वं सम्यक्त्वं च क्रमेणोच्छिनत्ति, तदनन्तरमेवाबद्धायुष्को ऽनिवृत्तिकरणं नाम सकलमोहापो है कसहं