________________
ધર્મબિંદુપ્રક૨ણ
સૂત્રો) રૂપી બિંદુઓ રહેલાં છે એવા ધર્મબિંદુ નામના ગ્રંથની ઉપર આ ટીકા (= विवरए) २युं छं. (४)
प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् ।
धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः || १ || इति ।
-
प्रणम्य प्रकर्षेण नत्वा, वन्दन - स्तवनाऽनुचिन्तनादिप्रशस्तकाय वाङ्मनोव्यापारगोचरभावमुपनीय। कमित्याह- परमात्मानम्, अतति सततमेव अपरापरपर्यायान् गच्छतीति आत्मा जीवः, स च द्विधा परमोऽपरमश्च तत्र परमो यः खलु निखिलमलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोकः जगज्जन्तुचित्तसंतोषकारणपुरन्दरादिसुन्दर सुरसमूहाहियमाणप्रातिहार्यपूजोपचारः तदनु
પહેલો અધ્યાય
,
सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैककालानेकसत्त्वसंशयसन्दोहापोहः स्वविहारपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोराशिः सदाशिवादिशब्दाभिधेयो भगवानर्हन्निति स परमः, तदन्यस्तु अपरमः, ततोऽपरमात्मव्यवच्छेदेन परमात्मानं प्रणम्य, किमित्याह - समुद्धृत्य सम्यगुद्धारस्थानाविसंवादिरूपतया उद्धृत्य पृथक्कृत्य श्रुतार्णवात् अनेकभङ्गभङ्गुरावर्त्तगर्त्तगहनादतिविपुलनयजालमणिमालाकुलात् मन्दमतिपोतजन्तुजातात्यन्तदुस्तरादागमसमुद्रात् धर्मबिन्दुं वक्ष्यमाणलक्षणधर्मावयवप्रतिपादनपरतया लब्धयथार्थाभिधानं धर्मबिन्दुनामकं प्रकरणं प्रवक्ष्यामि भणिष्यामि, कमिव कस्मात् समुद्धृत्येत्याह- तोयबिन्दुमिव जलावयववत् उदधेः दुग्धोदधिप्रभृतेर्जलराशेरिति, अत्र च तोयबिन्दुमिवोदधेरिति विन्दूपमेयतास्य प्रकरणस्य सूत्रसंक्षेपापेक्षया भणिता, अन्यथाऽर्थापेक्षया कर्पूरजलबिन्दोरिव कुम्भादिजलव्यापन्यायेन समस्तधर्मशास्त्रव्यापकताऽस्येति । इह प्रणम्य परमात्मानमित्यनेन विघ्नापोहहेतुः शास्त्रमूलमङ्गलमुक्तम्, परमात्मप्रणामस्य सकलाकुशलकलापसमूलोन्मूलकत्वेन भावमङ्गलत्वात्। धर्मबिन्दुं प्रवक्ष्यामीत्यनेन तु अभिधेयम्, धर्मलेशस्यात्राभिधास्यमानत्वात्, अभिधानााभिधेयलक्षणश्च सामर्थ्यात् संबन्धः, यतो धर्मबिन्दुरिहाभिधेयः, इदं च प्रकरणं वचनरूपापन्नमभिधानमिति । प्रयोजनं च प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणार्थाधिगमः, परम्परं तु द्वयोरपि मुक्तिः, कुशलानुष्टानस्य निर्वाणैकफलत्वादिति ગ્રંથકારનું મંગલાચરણ
પરમાત્માને પ્રણામ કરીને જેમ સમુદ્રમાંથી જલબિંદુનો ઉદ્ધાર કરે તેમ ધર્મના બિંદુનો (= લેશનો) સમ્યક્ ઉદ્ધાર કરીને આ ધર્મબિંદુ નામના ગ્રંથને કહીશ.