________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
-
एवं खु जंतपीलणकम्मं नेलंछणं च दवदाणं । सर-दह-तलायसोसं असईपोसं च वज्जेज्जा ।।११४।। (श्रावकप्रज्ञप्तौ २८७-२८८)
भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम्- अङ्गारकर्मेति अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात् ततस्तन्न कल्पते १। वनकर्म यद्वनं क्रीणाति ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २। शकटीकर्म यच्छाकटिकत्वेन जीवति, तत्र गवादीनां वध-बन्धादयो दोषाः स्युः ३। भाटीकर्म यद् भाटकमादाय स्वकीयेन शकटादिना परभाण्डं वहत्यन्येषां वा शकट - बलीवर्दादीनर्पयतीति ४। स्फोटीकर्म ओडुत्वम्, यद्वा हलेन भूमेः स्फोटनम् ५। दन्तवाणिज्यं यत् पूर्वमेव पुलिन्द्राणां मूल्यं ददाति ‘दन्तान्मे यूयं दद्यात' इति, ततस्ते हस्तिनो मन्ति 'अचिरादसौ वाणिजक एष्यति' इति कृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६। लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कमयो भवन्ति ७। रसवाणिज्यं कल्पपालत्वम्, तत्र सुरादावनेके दोषाः मारणा-55क्रोश-वधादयः ८ केशवाणिज्यं यद् दास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनेके दोषाः परवशित्वादयः ९। विषवाणिज्यं विषविक्रयः, स च न कल्पते, यतस्तेन बहूनां जीवानां विराधना स्यात् १०। यन्त्रपीडनकर्म तिलेक्षुयन्त्रादिना तिलादिपीडनम् ११। निर्लाञ्छनकर्म गवादीनां वर्द्धितककरणम् १२। दवदानकर्म यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरूणं तृणमुत्तिष्ठति, तत्र च सत्त्वशतसहस्राणां वधः स्यात् १३। सरो-हदतडागपरिशोषणं यत् सरःप्रभृतीनि शोषयति १४। असतीपोषणं यद् योनिपोषका दासीः पोषयन्ति तत्संबन्धिनीं च भाटीं गृह्णन्ति यथा गोल्लविषय इति १५। दिङ्मात्रदर्शनं चैतत् बहुसावद्यानां कर्मणामेवंजातीयानाम्, न पुनः परिगणनमिति। इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसङ्ख्याया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्या इति। नन्वङ्गारकर्मादयः कस्मिन् व्रतेऽतिचाराः? खरकर्मव्रत इति चेत्तर्हि व्रतविषयस्यातिचाराणां च कः परस्परं विशेषः? खरकर्मरूपत्वादङ्गारकर्मादीनाम्, अत्रोच्यते, खरकर्मादय एवैतेऽतः खरकर्मादिव्रतिना परिहार्याः, यदा पुनरेतेष्वेवानाभोगादिना प्रवर्त्तते तदा खरकर्मव्रतातिचारा भवन्ति, यदा त्वाकुट्या तदा भङ्गा एवेति ।।२९।।
હવે બીજા ગુણવ્રતના અતિચારો કહે છે :
૧૬૮