________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
तावत् तज्जीविताशयेव सहोभयकपाटपुटसङ्घटनेन निरु द्धानि प्रतोलीद्वाराणि, तदनु चकितचकिताः केनाप्यलक्ष्यमाणास्ते प्रत्यावृत्य हट्टान्तर्गतगुप्तभूमीगृहैकदेशे निलिल्यिरे, धारिण्यपि रात्रौ कृतोदारशृङ्गाराऽन्तःपुरेण सह निर्गतनरे नगरे यथाभिप्रायमभिरेमे, संजाते च प्रातःसमये, समुत्थिते कमलखण्डप्रबोधप्रदानप्रवणे किंशुककुसुमसमच्छायातुच्छोच्छलद्रागरञ्जितदिग्मण्डले जगदेकनेत्रे मित्रे, नगराभ्यन्तरमप्रविष्टेष्वेव पुरुषेषु महीपालो नगरारक्षकानादिदेश यथा- निभालयत नगरम्, मा न कश्चिदस्मदाज्ञाभङ्गकारी मानवः समजनीति। सम्यग् गवेषयद्भिश्च तैः कृतान्तदूतैरिव प्रापिरे श्रेष्ठिनन्दनाः निवेदिताश्च तत्समयमेव राज्ञः, ततोऽसौ कुपितकृतान्तभीषणभृकुटिभङ्गसङ्गिललाटपट्टमाधाय तच्छ्रेष्ठिपुत्रवधाय तान् व्यापारयाञ्चकार, अत्रान्तरे समाकाकाण्डे एव मुद्गराघातपातसदृशमेतं वृत्तान्तं श्रेष्ठी श्रान्त इव भ्रान्त इव पीडित इव करिम करनि करक रास्फालन समुच्छला बाहलजलकल्लोलाकुलितमहाजलनिधिमध्यसंभिन्नयानपात्रान्तीयमानमानव इव किंकर्तव्यतामूढः क्षणं कामप्यवस्थां दारुणामन्वभूत्, तदनु निराकृत्य कातरनरविलसितम्, अपास्य स्त्रीजनोचितं शोकावेगम्, समालम्ब्य धीरनरोचितं धैर्यम्, अवगणय्य दीनभावम्, नगरप्रधानान्यलोकसहायः प्रवररत्नभृतभाजनव्यग्रपाणिः सहसैव राज्ञो विज्ञापनायोपतस्थौ, विज्ञप्तवांश्च यथा- देव! न कुतोऽपि चित्तदोषादमी मत्पुत्रा नगरादनिर्गमभाजो बभूवुः, किन्तु तथाविधलेख्यकव्यग्रतया निर्गन्तुपारयतामादित्यास्तमयसमयागमे च प्रचलितानामप्यमीषां प्रतोलीद्वारपिधानवशेन निर्गमो नाभूत्, अतः क्षम्यतामेकोऽपराधः, क्रियतां प्रियपुत्रजीवितव्यप्रदानेन प्रसादः, एवं च पुनः पुनः भण्यमानोऽपि राजा अवन्ध्यकोपमात्मानं मन्यमानो यदा न मोक्तुमुत्सहते तदा तत्कोपनिर्यापणायैकपुत्रोपेक्षणेन पञ्च मोचयितुमारब्धाः, यदा तानपि न मुञ्चति तदा द्वयोरू पेक्षणेनैव चत्वारः, एवं तदमोचनेऽपि त्रयो द्वौ यावच्छेषोपेक्षणेन एको ज्येष्ठ इति, ततः संनिहितामात्यपुरोहिताद्यत्यन्ताभ्यर्थनेन निर्मूलकुलोच्छेदो महते पापायेति पर्यालोचेन च मनाग् मन्दीभूतकोपोद्रेको महीपतियेष्ठं पुत्रमेकं मुमोचेति ।
__अयमत्रार्थोपनयः- यथा तद्वसन्तपुरं नगरं तथा संसारः, यथा राजा तथा श्रावकः, यथा स श्रेष्ठी तथा गुरुः, यथा च षट् पुत्रास्तथाऽमी षट् जीवनिकायाः, यथा च तस्य पितुः शेषपुत्रोपेक्षणेनैकं पुत्रं मोचयतोऽपि न शेषपुत्रवधानुमतिः एवं गुरु र्निजपुत्रप्रायान् षडपि जीवनिकायांस्तैस्तैः प्रव्रज्योत्साहनोपायैर्गृहस्थतया तद्वधप्रवृत्तात् श्रावकात् मोचयति, यदा चासौ नाद्यापि तान् मोक्तुमुत्सहते तदा ज्येष्ठपुत्रप्रायं त्रसकायं
૧૩૦