________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
भुञ्जानो महान्तमनेहसमनैषीत्। इतश्च तत्रैव पुरे प्रचुरतर द्विपद-चतुष्पदा-ऽपद-हिरण्यसुवर्ण-धन-धान्य-शंख-शिला-मुक्ता-प्रवाल-पद्मराग-वैडूर्य-चन्द्रकान्तेन्द्रनील-महानीलराजपट्टप्रभृतिप्रवरपदार्थ-सार्थपरिपूर्णसमृद्धिसमुपहसितश्रीकण्ठसखदर्पोद्रेको दीना-ऽनाथाऽन्ध-पङ्गप्रमुखप्राणिप्रणाशिताशेषशोकः समजनि समुद्रदत्ताभिधानो निखिलवणिग्वर्गप्रधानो गुणगणगरिष्ठः श्रेष्ठी, तस्य चाश्रय इव लावण्यगुणानाम्, उदाहरणमिव सर्वश्रेयोवस्तुनाम्, महानिधानमिव पुण्यरत्नानाम्, भूषणमिव स्वकुलसन्ततेः, पादप इव सौकुमार्यवनलतायाः, समभवत् सुमङ्गलाभिधाना सधर्मचारिणी, तस्यामसौ निबिडबद्धान रागो जीवलोकोद्भवप्राज्यवैषयिकशर्मसागरोदरमध्यमग्नोऽनल्पं कालमतिवाहयाञ्चकार, प्रस्तावे च समजनिषत तयोर्विशदसमाचारसमाचरणपवित्राः पुत्राः क्रमेण प्रियङ्कर-क्षेमङ्कर-धनदेवसोमदेव-पूर्णभद्र-मणिभद्रनामानः षट्, ते च निसर्गतः एव गुरुजनविनयपरायणाः परमकल्याणप्रदानप्रवणपरिशुद्धत्रिवर्गबद्धानुरागाः अनुरागभरसमाकृष्यमाणकीर्तिकामिनी -बाढोपगूढाः सकलसज्जनमनः-संतोषकातुच्छसमुच्छलद्दया-दाक्षिण्यप्रायप्राज्यगुणालङ्कृतशरीराः शरीरसौन्दर्योत्कर्षतिरस्कृत-करकेतनलावण्यदर्पातिरेकाः वणिग्जनोचितव्यवहारसारतया पितरमतिदूरमतिक्रान्तकुटुम्वचिन्ताभारमकार्षुः ।
अन्यदा च धारिणी देवी अन्तःपुरान्तः नरपतौ पट्पटहप्रवादनप्रवृत्ते अनेककरणभङ्गसंसङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधिं व्यधात्, ततः संतोषभरतरलितमनाः महीपतिः प्रियायै वरं प्रायच्छत्, सा चोवाच यथा- देव ! अद्यापि तवान्तिक एव वरस्तिष्टतु, प्रस्तावे याचिष्ये इति, एवं च गच्छति काले समाययौ अन्यदा कामुकलोकविलासोल्लाससाहाय्यकारी कौमुदीदिवसः, विज्ञप्तश्च देव्या वसुन्धराधिपतिः देव ! क्रियतां वरेण प्रसादः यथाऽद्य कर्पूरपूरप्रतिभशशधरकरनिकरपरिपूरितनिखिलाशायां निशायामिमां नगरी गरीयसा स्वपरिवारेण शेषान्तः पुरेण च परिकरिता सती त्रिकचतुष्कादिरमणीयप्रदेशसौन्दर्यावलोकनकुतूहलेनास्खलितप्रसरा परिभ्रमामीति, तदन्वेव राजा सर्वत्र नगरे पट ह प्रदान पूर्वकं सकलापुरुषव्यक्तीनां रजनिनगरनिर्वासनाज्ञामुद्घोषयामास, ततः प्रातःक्षणादारभ्य यथासंवाहं सर्वेष्वपि पुरुषेषु नगराद् बहिर्गन्तुं प्रवृत्तेषु समुचित समये स्वयमे व महीपतिर्मन्त्रिप्रमुखनगरप्रधाननरपरिकरपरिकरितो नगराद् बहिरेशानदिग्भागवतिनि मनोरमोद्याने जगाम, ते च षडपि श्रेष्ठिसूनवो लेख्यककरणव्यग्रा ‘एते व्रजाम एते व्रजामः' इति निबिडनिबद्धाभिसन्धयोऽपि सन्ध्यासमयं यावदापण एव तस्थुः । इतश्चास्ताचलचूडामलञ्चकार सहनकरः, ते च त्वरापरिगता यावदायान्ति गोपुरसमीपे
૧ ૨૯