________________
श्रीसिद्धप्राभृतं सटीकम्
प्रज्ञापनीयनयमतेन च सर्वानाद्यनन्तसिद्धप्ररूपणा द्रष्टव्येति गाथार्थः ॥ ८१ ॥
अत एवाधस्तादभिव्यक्तिपक्ष आसृत आगमस्य, साम्प्रतमस्याः सत्पदप्ररूपणादिषु मूलोत्तरद्वारेष्वतिदेशार्थमाह
उप्पज्जमाणगपरंपरा उ जह चेवणंतरा सिद्धा । संताइए तह च्चिय, अभिलावविसेसिया णेया ॥ ८२ ॥
१३१
"उप्पज्जमाण" गाहा ॥ उत्पद्यमानकपरम्परसिद्धाः कथं द्रष्टव्या: ? उच्यते-'जह चेवऽणंतरा सिद्धा' अनन्तरप्रकरणे ये विस्तरेणोक्तास्तद्वदेतेऽपि । क्व ? 'संतादिके' सत्पदादिद्वारविधौ तथैव द्रष्टव्याः । यदि परं 'अभिलावविसेसिया णेया' परम्परसिद्धा इत्यनेनाभिलापेन विशेषिता इति गाथार्थः ॥८२॥
अधुनाऽतिदेशविशेषमाह
संतपय खेत्त फुसणा, भावो य परंपराण सिद्धाणं । पुव्वुप्पण्णाण तहा, सेसपयाणं विसेस इमो ॥८३॥ परिमाणेण अणंता, कालोऽणाईअनंतओ तेसिं ।
त् य अंतरकालो, अप्पाबहुयं अओ वोच्छं ॥८४॥ सामुद्द दीव जलथल, दोण्हं दोण्हं तु थोवसंखगुणा । उड्डअहतिरियलोए, थोवा संखा गुणा संखा ॥ ८५ ॥
-
"संतपय खेत्त फुसणा भावो य" एतद्द्वारचतुष्टयं यथोत्पद्यमानपरम्पराणां सिद्धानामतिदिष्टं 'पुव्वुपण्णाण तहा' पूर्वोत्पन्नपरम्परभावसिद्धानामपि तथैव द्रष्टव्यम्, द्वारचतुष्टयमप्यङ्गीकृत्य विशेषाभावात् । यत्र तु विशेषस्तान्याह - 'सेसपयाणं' दव्वप्पमाणाईणं 'विसेसो' भेयो अणंतरसिद्धपरूवणाओ सगासा इमो ॥८३॥ तंजहा - " परिमाणेण अणंता" गाहा ॥ परम्परसिद्धा ण उ जहा अणंतरसिद्धा संखेज्जा इति दव्वपमाणभेओ । 'कालोऽणाईअणंततो तेसिं' परंपरसिद्धाणं अनादित्वात्, न तु जहा अणंतरसिद्धाणं अट्ठसमया इति कालदारविसेसो । ' णत्थि य अंतरकालो' कुतो ?