________________
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
66
एवं लामकायनः । उपकशब्दस्य नडादौ पाठात् " नडादिभ्य आयनण” [ ६, १, ५३ ] इत्यायनणि " अवर्णवर्णस्य " [ ७, ४, ६८ ] इत्यन्त्या -- कारलुकि वृद्धिः स्वरेष्वादे० " [ ७, ४. १ ] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च ' औपकायन' इति प्रकृतिः; बहुत्वे तु “ वोपकादेः " [ ६, १, १३० ] इत्यनेन बहुत्वविशिष्टे गोत्रापत्येर्थे वर्त्तमानस्य नडादिविहितस्यायनणो विकल्पेन लुप् भवति, लुप्पक्षे 'उपक' इति मूलप्रकृतिः, लुबभावपक्षे. च 'औपकायन' इत्येवंरूपा प्रकृतिर्विज्ञेया ॥
८२
स्त्रियां तु—
उपकस्यापत्यं वृद्धं स्त्री 'औपकायनी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५) शब्दवदवसेयानि । अत्र “ जातेरयान्त० " [२, ४, ५४ ] इत्यनेन 'गोत्र च चरणैः सह' इति वचनात् जातिलक्षणो ङीर्भवतीति भावनीयम् ॥
लमकस्यापत्यं वृद्धं स्त्री 'लामकायनी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५) शब्दद्भवन्ति । शेषं सर्वं 'औपकायनी' वद्बोध्यम् ॥
वि०
(१२७) अकारान्तः पुंलिङ्गः 'माण्डूक' शब्दः ।
मण्डूकस्यापत्यं पुमान् माण्डूकः ॥
द्विव०
माण्डूको
प्र०
एकव०
माण्डूकः
एवं सर्वाण्यपि रूपागि 'जिन' (७४) शब्दबोध्यानि ।
अत्र मण्डूकशब्दादपत्येऽर्थे " पीला साल्वामण्डूकाद्वा '' [ ६, १, ६८ ] इति सूत्रेाऽप्रत्ययो विकल्पेन भवति । यदाऽय् तदाऽन्त्याऽकारलुक्याद्यस्त्ररवृद्धौ च सत्यां ' माण्डूक' इति भवति । अगभावपक्षे तु " दितेश्य वा [ ६, १, ६९ ] इत्यस्मिन् सूत्रे चकारेण मण्डूकस्यानुकर्षणात्तत एयण् विकल्पेन भवति; यदा एयण् ता 'माण्डूकेय' इति स्यात् । उपर्युक्तसूत्रद्वयस्य
बहुव०
माण्डूकाः
ܕܕ