________________
७२
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
'वीर' (७५) शब्दवढूपाणि भवन्ति, यतोऽत्र न्यस्य द्रिसंज्ञाया अभावाद्बहुषु लुप् न भवति, तेन बहुत्वेऽपि 'कौरव्य' इति प्रकृतिः । स्त्रियां तु “आत्" [ २. ४. १८ ] इत्यापि · कौरव्या' इत्यस्य रूपाणि वक्ष्यमाण — दया ' (१६५) शब्दवद्धोध्यानि । ____ अथ कौरव्यशब्दस्य तिकादिष्वपि पाठः, तत्र हि औरशशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् कौरव्यशब्दः क्षत्रियप्रत्ययान्त एव गृह्यते । अन्यस्मादिजेव। अत एव कुरोर्ब्राह्मणस्यापत्यं 'कौरव्य' इत्यत्र " कुर्वादेयः " [६. १. १००] इत्यनेनैव न्यन्तत्वम् ; कौरव्यस्यापत्यं युवा " अत इन् " [ ६. १. ३१ ] इति 'इन्' प्रत्यये " मिदार्षादणिजोः " [ ६. १. १४० ] इति तस्य लुपि कौरव्यः पिता, कौरव्यः पुत्रः । तिकादिषु औरशशब्दसाहचर्यात् कौरव्यशब्दः क्षत्रियगोत्रवृत्तिर्विज्ञायते, अयन्तु ब्राह्मणगोत्रवृत्तिरिति, अत 'आयनिन्' प्रत्ययो न भवति ।
क्षत्रियवचनात्तु " दुनादिकुर्वित् " [ ६. १. ११८ ] इति ज्यन्तत्वे सति कौरव्यस्थापत्यं युवा तिकादिपाठात् “तिकादेरायनि" [६. १. १०७] इति 'आयनिन्' प्रत्यये जाते 'कौरव्यः पिता, कौरव्यायणिः पुत्रः' कौरव्यशब्दात् क्षत्रियवचनानि उत्पन्नस्यऽऽयनिन्प्रत्ययस्य " अब्राह्मणात् " [६. १. १४१] इति प्राप्तावपि लुब् न भवति, विधानसामर्थ्यात् ॥
(११५) अकारान्तः पुल्लिङ्गः 'आवन्त्य' शब्दः। अवन्तीनां राजा, अवन्ते राज्ञोऽपत्यं पुमान् वाऽऽवन्त्यः ॥ वि० एकव०
द्विव०
बहुव० प्र० आवन्त्यः आवन्त्यौ अवन्तयः द्वि० आवन्त्यम्
अवन्तीन् तृ. आवन्त्येन आवन्त्याभ्याम् अवन्तिभिः शेषाणि रूपाणि 'काप्य' (९३) शब्दवदवसेयानि।
इदन्तस्याऽवन्तिशब्दस्यात्र " दुनादिकुर्वित्" [ ६. १. ११८ ] इति दिसंज्ञके ज्यप्रत्ययेऽन्त्याऽकारलुक्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'आवन्त्य' इति