________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
६९
ष. दारदस्य दारदयोः दरदाम् स० दारदे
दरथ्सु) सं० हे दारद हे दारदौ हे दरदः
अत्र 'दरद्' शब्दस्य द्विस्वरत्वेन “ पुरुमगधकलिङ्गशूरमसद्विस्वरादणू " [.६, १, ११६ ] इति द्रिसंज्ञकेऽणि "वृद्धिः स्वरेष्वादे." [७, ४,१] इत्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'दारद' इति प्रकृतिः, बहुत्वे तु "बहुष्वस्त्रियाम्" [ ६, १, १२४ ] इति २रणो लुपि 'दरद्' इति मूलप्रकृतिर्विज्ञेया ॥ :
स्त्रियां तुदरदोऽपत्यं स्त्री 'दरद्' इत्यस्य रूपाणि व्यञ्जनान्तप्रकरणे वक्ष्यमाणेषु दकारान्तेषु शब्देषु प्रदर्शयिष्यन्ते।
अत्रायं विशेषः-" देरजणोऽप्राच्यभर्गादेः " [ ६, १, १२३ ] इति सूत्रेण देरणो लुपि 'दरद्' इति प्रकृतिर्ज्ञातव्या ॥
(११२) अकारान्तः पुंल्लिङ्गः 'आम्बष्ठ्य' शब्दः। आम्बष्ठानां राजा, आम्बष्ठस्यापत्यं वा पुमानाम्बष्ठ्यः । वि० एकव० द्विव०
बहुव० प्र. आम्बष्ठ्यः आम्बष्ठ्यौ . आम्बष्ठाः द्वि० आम्बष्ठ्यम्
आम्बष्ठान तृ० आम्बष्ठ्येन आम्बष्ठ्याभ्याम् आम्बष्ठैः शेषाणि रूपाणि 'वैदेह' (१०१) शब्दवदवसेयानि ।
आम्बष्ठ्यशब्दस्य " वृद्धिर्यस्य स्वरेष्वादिः " [६, १, ८ ] इति दुसंज्ञायाम् “ दुनादिकुर्विकोशलाजादा न्यः " [ ६, १, ११८ ] इति दिसंज्ञको न्यप्रत्ययो भवति, तदनु-अन्त्याऽकारलुक्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'आम्बष्ठ्य' इति प्रकृतिः, बहुत्वे तु "बहुष्वस्त्रियाम्' [६, १, १२४] इति द्रेय॑स्यलुपि 'आम्बष्ठ' इति मूलप्रकृतिज्ञया । ।