________________
२१६ [ श्रोस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ।
(२५०) ईकारान्तः स्त्रीलिङ्गः 'शूर्पनखी' शब्दः ॥
( शूर्प इव नखा अस्याः-शूर्पनखी शूर्पनखा )
एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-अतिनखीचन्द्रमुखी-अतिमुखी-प्रमुखाः ॥
शब्दसानिका त्वियम् - अन्नाऽसंज्ञायां सहादिवर्जपूर्वपदाभ्यां नख. मुखाभ्यां " नखमुखादनाम्नि" [२, ४, ४०] इति कीर्वा भवति । ङ्यां शूर्पनखी, ड्यभावे आपि शूर्पनखा इति । आबन्तस्य रूपाणि 'दया' (१५६) वत् ॥
शूर्पवनखा अस्य शूर्पनखः कश्चित्पुमान् , शूर्पनखं कुलम् । रूपाणि पुंसि 'जिन' (७४) वत्, क्लीबे 'दर्शन' (१५६) वञ्च ॥
नखानतिक्रान्ता=अतिनखो, अतिनखा ) नखानतिक्रान्तोऽतिनखः पुअतिशयिता नखा अस्याः= ,, ,, मान् । अतिनखं कुलम् ।
चन्द्रवन्मुखमस्याः चन्द्रमुखी, चन्दमुखा एवं शेषयोरपि ॥ पुंसि 'जिन' अतिशयितं मुखमस्या: अतिमुखी, अतिमुखा । (७४) वत् , क्लीवे 'दर्शन'
मुखमतिक्रान्ता= ,. , १५६) वच्च रूपाणि ॥
संज्ञाविषये तु आवेव नस्य णत्वं च, यथा-शूर्पणखा (गवणस्य भगिनी) अत्र “पूर्वपदस्थानाम्न्यगः" [२, ३, ६४] इति नस्य णत्वं भवतीति ॥
(२५१) ईकारान्तः स्त्रीलिङ्गः 'दीर्घपुच्छी' शब्दः॥ ( दीर्घ पुछमस्याः दीर्घपुच्छी दीर्घपुच्छा वानरी )
एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं सुपुच्छीअतिपुच्छीप्रभृतयः ॥
शब्दसाधनिका त्वियम्-अन्न सहादिवर्जपूर्वपदात् पुच्छशब्दात् “पुच्छात्" [२, ४, ४१] इति ङीर्वा भवति । ङ्यां दीर्घपुच्छी ड्यभावे आपि दीर्वपुच्छा इति । आबन्तस्य ‘दया' (१६५) वद्रूपाणि ॥
दीर्घ पुच्छमस्य-दीर्घपुच्छो वानरः, दीर्घपुच्छं वानरकुलम् । रूपाणि पुंसि 'जिन' (७४) वत् , क्लीवे 'दर्शन' (१५६) वञ्च ॥