________________
श्रीमत्सूराचार्यविरचितं दानादिप्रकरणम् प्रथमोऽवसर:
(शिखरिणी)
[४-१'] यतालोदं कुलं [चन्द्रालोक - प्रतिमधवलं] जातिरमला सुरूपं सौभाग्यं ललितललना भोग्यकमला । चिरायुस्तारुण्यं बलमविकलं [ कल्यमनिशं समाराद्धः शुद्धः सकलमपि धर्मोऽ]र्पत इदम् ॥१७॥
(मालीनी )
भुवनतिलककल्पे यत् कुले केऽप्यनल्पे त्रिभुवनजनवन्द्ये प्राणभाजोऽनवद्ये । धनकनकस [मेते प्राप्नुवन्ति स्वजन्म फलमिदमवगम्यं धर्म]कल्पद्रुमस्य ॥ १८ ॥ विदन्ति न हि वेदनां गदमुद्भवामाकुलाः कुलीनपुरुषा इवापरपुरन्ध्रिजातां रतिम् । यद[प्रतिमतो बलाद् रिपुबलं भवेत्] तर्जितं [तदेतदखिलं वरं] विमलधर्मविस्फुर्जितम् ।। १९ ॥
१. पत्रत्रयं नोपलभ्यते ।